________________
प्रथमः सर्गः
योग से अठारह हुआ, नल उसके भी वेत्ता थे। अथर्व वेद को शेष तीनों वेदों का सार या उद्धार माना जाता है। यह अथवं वेद १+ वेदांग ६ + अप्रधान पुराण ( न्याय, मीमांसा, धर्मशास्त्र, आयुर्वेद, धनुर्वेद, गांधर्वर्वेद, अर्थशास्त्र)८ + वेद ३ =१८ का योग । इस प्रकार नल परस्पर विरोधिनी लक्ष्मी और सरस्वती के पात्र थे।
मल्लिनाथ के अनुसार यहाँ व्यञ्जन का अप्रयोग होने के कारण गम्योत्प्रेक्षा है 'साहित्य विद्याधरी' के अनुसार 'जिगीषया' द्वारा अध्यवसाय के सिद्ध होने से अतिशयोक्ति । नारायण पंडित यहाँ उपमा मानते हैं ।
दिगाशवृन्दांशविभूतिरोशिता दिशां स कामप्रसभावरोधिनीम् । बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥ ६ ॥
जीवात् -अथास्य देवांशत्वमाह-दिगीशेति । दिशामीशा दिगीशा। दिक्पाला इन्द्रादयः तेषां वृन्दं समूहः तस्य मात्राभिः अंशः विभूतिरुद्भवः यस्य तथाभूतः । तथा च 'इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निहत्य शाश्वतीरि' ति । अष्टामिर्लोकपालानां मात्राभिनिर्मितो नृप' इति च स्मृतिः। दिशाम् ईशिता ईश्वरः स नलः शास्त्राणि दिशामिति च बहुवचन निर्देशात् इन्द्रादीनामेकैदिगीशत्वम् अस्य तु सर्वदिगीशितृत्वमिति व्यतिरेको व्यज्यते । कामम् इच्छां मदनञ्च मदनस्य प्रसभेन बलात् अवरुणद्धीति तथोक्तां स्वेच्छाप्रवृत्तिनिवारिणी कन्दर्पदहनकारिणीञ्चेत्यर्थः । कामप्रसरावरोधिनीमिति पाठे कामस्य प्रसरः विस्तारः वृद्धिरिति यावत् तमवरुणद्धीति तथैवार्थः। निजम् आत्मीयं यत् त्रिनेत्रावतरत्वं दिगीशेश्वरांशप्रमवत्वं तस्य बोधिकां ज्ञापिकाम अत्र 'तृजकाभ्यां कतरी' ति कृद्योगसमास्यैव निषेधात् शेषषष्ठीसमासः 'तत्प्रयोजक' इत्यादि सूत्रकारप्रयोगदर्शनादिति बोध्यम् । द्वयाधिका तृतीयामित्यर्थः, दृशं नेत्र बमार दधे । एतेन अस्य शास्त्रेणव काय्यदर्शित्वं व्यज्यते । शास्त्राणि दृशमिति उद्देश्यविधेयरूपकर्मद्वयम् । अवतरेत्यत्रा प्रत्ययान्तेन तरशब्देन 'सुप्-सुपे' ति समासः, न तूपसृष्टात् प्रत्ययोसत्तिः । अत्र शास्त्राणि दृशमिति व्यस्तरूपकम् ॥ ६॥
अन्वयः-दिगीशवृन्दांशविभूतिः ईशिता सः शास्त्राणि कामप्रसमावरोधिनी निजत्रिनेत्रावतरत्वबोधिकां द्वयाधिकं दृशं बभार ।