________________
लोकप्रकाशे क्षेत्र लोके सर्गः १५
॥१६५॥
Jain Education
चैवं - वारुणीवरनामा च द्वीपोऽधिर्वारुणीवरः । वरुणवरेत्येषापि श्रूयतेऽस्य श्रुतेऽभिघा ॥ १० ॥ ततः क्षीरवरो द्वीपः, क्षीरोदश्चास्य वारिधिः । ततो घृतवरो द्वीपो, घृतोदः पुनरम्बुधिः ॥ ११ ॥ तत इक्षुवरो द्वीप, इक्षूद्श्च तदम्बुधिः । नन्दीश्वराभिधो द्वीपो, नन्दीश्वरोदवारिधिः ॥ १२ ॥ स्थापना । स्युस्त्रिप्रत्यवताराणि, नामधेयान्यतः परम् । अरुणप्रभृतिद्वीपान्धीनां तस्मात्तथा ब्रुवे ॥ १३ ॥ अरुण ९ श्रारुणवरो २ऽरुणवरावभासकः ३ । कुण्डलः ४ कुण्डलवर ५स्तथा तदवभासकः ६ ॥ १४ ॥ शङ्खः ७ शङ्खचरः ८ शङ्खवरावभास ९ इत्यपि । रुचको १० रुचकवर ११स्तदवमासकोऽपि १२ च ॥ १५ ॥ भुजगो १३ भुजगवर १४ स्तदवभासकोऽपि १५ च । कुशः १६ कुशवरश्चैव १७, कुशवरावभासकः १८ ॥ १६ ॥ क्रोञ्चः १९ क्रोञ्चवरः २० क्रोञ्चबरावभासकोऽपि च २१ । एकविंशतिरित्येते, समनामान्धिवेष्टिताः ॥ १७ ॥ स्थापना । एवं चामी असंख्यत्वान्नियतैर्नामभिः कथम् । शक्यन्ते वक्तुमित्यत्राम्नायो नाम्नां निरूप्यते ॥ १८ ॥ विभूषणानि वस्त्राणि, गन्धाः पद्मोत्पलानि च । तिलकानि निधानानि रत्नानि सरितोऽद्रयः ॥ १९ ॥ पद्मादयो हदाः कच्छाप्रमुखा विजया अपि । वक्षस्कारादयो वर्षधराश्च कुरुमन्दराः ॥ २० ॥ सौधर्मप्रमुखाः स्वर्गाः शक्रादयः सुरेश्वराः । चन्द्रसूर्यग्रहऋक्षताराः कूटानि भूभृताम् ॥ २१ ॥ इत्यादिशस्तवस्तूनां यानि नामानि विष्टपे । द्वीपान्धयः स्युस्तैः सर्वैस्त्रिशः प्रत्यवतारितैः ॥ २२ ॥ एकैकेनाभिधानेनाभिधेयास्तेऽप्यसंख्यशः । यथा जम्बूदीपनाम्ना | दीपाः परेऽप्यसंख्यशः ॥ २३ ॥ यावदेवं क्रमाद् द्वीपं सूर्यवरावभासकम् । परिवेष्ट्य स्थितः सूर्यवरावभा
tional
For Private & Personal Use Only
द्वीपसमुद्रनामानि
२०
२५ ॥१६५॥ २७
w.jainelibrary.org