Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शानवद्वत्तादिषु खामित्वमुद्यताम् ॥२९॥संख्या सनत्कुमारे च, वृत्तानां पङिवर्तिनाम् द्वाविंशत्यधिका पञ्चशती प्राच्यनिरूपिता॥३०॥ त्रिकोणानां सर्घसंख्या, षट्पञ्चाशं शतत्रयम् । चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् । |॥३१॥ षड्विंशा द्वादशशती, पालेयानां भवेदिह । लक्षाण्येकादशैवाष्टनवतिश्च सहस्रकाः॥३२॥ सचतुःसप्ततिः सप्तशती पुष्पावकीर्णकाः। एवं द्वादश लक्षाणि, तृतीयस्य सुरेशितुः॥३३॥ तुर्ये वृत्तविमानानां, सप्तत्याऽभ्यधिक शतम् । षट्पश्चाशत्समधिकं, त्रिकोणानां शतत्रयम् ॥ ३४॥ चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् । शतान्यष्ट चतुःसप्तत्याढ्यानि सर्वसंख्यया ॥ ३५ ॥ सप्त लक्षाण्यथ नवनवतिश्च सहस्रकाः । षड्विंशं च । शतं पुष्पावकीर्णा इह निश्चिताः॥३६॥ एषां योगेऽष्टलक्षाणि, माहेन्द्रस्य सुरेशितुः । विमानानीशितव्यानि, भाव्यानि भव्यधीधनैः॥३७॥ अमी विमानाः सर्वेऽपि, घनवातप्रतिष्ठिताः । श्यामं विना चतुवर्णा, मणिरत्नविनिर्मिताः॥३८॥ घनवातोऽतिनिचितो, निश्चलो वातसंचयः। जगत्वाभाव्यतस्तत्र, विमानाः शश्वदास्थिताः॥ ३९ ॥ षडूविंशतिः शतान्येषु, पृथ्वीपिण्डो निरूपितः। शतानि षड् योजनानां, प्रासादा:
स्युरिहोच्छ्रिताः॥४०॥ सौधर्मेशाननिष्ठानां, विमानानामपेक्षया । अत्युत्कृष्टवर्णगन्धरसस्पर्शा अमी मताः 8॥ ४१ ॥ सौधर्मेशानवच्छेषं, स्वरूपं भाव्यतामिह । विष्कम्भायामपरिधिमानं तु प्राक प्रदर्शितम् ॥ ४२ ॥ 8 अर्थतेषु विमानेषु, पूर्वपुण्यानुसार तः। उत्पद्यन्ते सुरास्तत्र, रीतिस्तु प्राक् प्रपश्चिता ॥ ४३ ॥ पद्मकेसर-81
वद्गीरास्तेऽथ सागभूषणा:। वराहचिह्नमुकुटाः, सनत्कुमारनाकिनः॥४४॥ सिंहचिहधारिचारकिरीटरम्य
JainEducadKanational
For Private Personal use only
X
w
.jainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480