Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 445
________________ जनितं, न नागासुरकर्तृकम् ॥ ११॥ असुरनागकुमाराणां तत्रागमनासंभवादिति भगवतीवृत्तौ ॥ कृष्णराजी|| मेघराजी, मघा माघवतीति च । स्यादातपरिघो वातप्रतिक्षोभस्तथैव च ॥१२॥ स्याद्देवपरिघो देवप्रतिक्षोभोऽपि नामतः। आसां नामान्यष्ट तेषामन्वर्थोऽथ विभाव्यते ॥ १३ ॥ कृष्णपुद्गलराजीति, कृष्णराजीयमुच्यते । कृष्णाब्दरेखातुल्यत्वान्मेघराजीति च स्मृता ॥१४॥ मघाया माघवत्याश्च, सवर्णेत्याख्यया तथा। वातोऽत्र वात्या तद्वद्या, तमिस्रा भीषणापि च ।। १५॥ ततोऽसौ वातपरिघस्तत्प्रतिक्षोभ इत्यपि । स्याद्देवपरिघो देवप्रतिक्षोभश्च पूर्ववत् ॥१६॥ अथासां कृष्णराजीनामन्तरेषु किलाष्टसु । लोकान्तिकविमानानि, निर्दिष्टान्यष्ट पारगैः॥ १७॥ तत्राभ्यन्तरयोः प्राचोदीच्ययोरन्तरे तयोः । विमानमर्चिः प्रथम, चकास्ति प्रचुरप्रभम् ॥ १८ ॥ अन्तरे प्राच्ययोरेव, बाह्याभ्यन्तरयोरथ । द्वितीयमर्चिालीति, विमानं परिकीर्तितम् ॥१९॥ तृतीयमभ्यन्तरयोरन्तरे प्राच्ययाम्ययोः। वैरोचनाभिधं प्रोक्तं, विमानं मानवोत्तमैः ॥२०॥ बाह्याभ्यन्तरयोरेवान्तरेऽथ दाक्षिणात्ययोः। प्रभंकराभिधं तुर्य, विमानमुदितं जिनैः॥ २१ ॥ अभ्यन्तरदाक्षिणात्यप्रती-| च्ययोरथान्तरे । विमानमुक्तं चन्द्राभं, पञ्चमं परमेष्टिभिः ॥२२॥ स्यात्प्रतीचीनयोरेवं, वाद्याभ्यन्तरयोस्तयोः।। विमानमन्तरे षष्ठं, सूर्याभमिति नामतः ॥२३॥ पश्चिमोदीच्ययोरभ्यन्तरयोरन्तरेऽथ च । विमानमुक्तं शुक्राभं. सप्तमं जिनसत्तमैः॥ २४ ॥ बाह्याभ्यन्तरयोरौत्तरायोरन्तरेऽथ च । विमानं सुप्रतिष्ठाभमष्टमं परिकीर्तितम्|| ॥२५॥ सर्वासां कृष्णराजीनां, मध्यभागे तु तीर्थपैः । विमानं नवमं रिष्ठाभिधानमिह वर्णितम् ॥ २६॥ १४ Jan Educati onal For Private Personal use only A ainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480