Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 477
________________ निपञ्चकवासिनस्तु समस्तां लोकनाडी पश्यन्ति लोकमध्यवर्तिनी, न पुनर्लोक"मिति अत एवावधिज्ञानाधारपर्यायवत्तया । क्षेत्रस्यावस्थानमुक्तं, त्रयस्त्रिंशतमम्वुधीन ॥४९॥ यदेषामुत्पत्तिदेशावगाढानां भवावधि । अवधेरप्यवगाढक्षेत्रावस्थितिनिश्चयः ॥५०॥ तथोक्तं विशेषावश्यके-"खेत्तस्स उऽवट्ठाणं तेत्तीसं सागरा उ कालेणं । दवे भिन्नमुहुत्तो पज्जवलंभे य सत्तट्ट ॥५१॥" सर्वार्थसिद्धशृङ्गाग्राद्गत्वा द्वादशयोजनीम् । जात्यार्जुनखर्णमयी, भाति सिद्धिशिलाऽमला ॥५१॥ पञ्चचत्वारिंशता सा, मिता योजनलक्षकैः। विष्कम्भादायामतश्च, परितः परिधिः पुनः ॥५२॥ एका कोटी योजनानां, सहस्रस्त्रिंशताऽन्विता । द्विचत्वारिंशता लक्षयोजनानां द्विशत्यपि ॥५३॥ तथा पञ्चाशदेकोना, योजनानां च साधिका । बाहल्यं मध्यभागेऽस्या, योजनान्यष्ट कीर्तितम् ॥ ५४॥ स मध्यभागो विष्कम्भायामाभ्यामष्टयोजनः। ततोऽऽङ्गुलपृथक्त्वं च, योजने योजने गते ॥५५॥ बाहल्यं हीयते तेन, पर्यन्तेष्वखिलेष्वपि । अङ्गुलासंख्यभागाङ्गी,मक्षिकापत्रतस्तनुः॥५६॥ तुषारहारगोक्षीरधाराधवलरोचिषः । नामान्यस्याः प्रशस्याया, द्वादशाहुर्जिनेश्वराः॥ ५७॥ ईष १त्तथेषत्प्रारभारा २, तन्वी च ३ तनुतन्विका ४ । सिद्धिः५] सिद्धालयो ६ मुक्ति मुक्तालयो ८ऽपि कथ्यते ॥५८॥ लोकाग्रं९तत्स्तूपिका च १०, लोकाग्रप्रतिवाहिनी ११। तथा सर्वप्राणभूतजीवसत्त्वसुखावहा १२॥ ५९॥ उत्तानच्छत्रसंकाशा, घृतपूर्णां करोटिकाम् । तादृशां तुलयत्यस्या, लोकान्तो योजने गते ॥६०॥ ऊचुर्दादशयोजन्याः, केचित्सर्वार्थसिद्धितः। लोकान्त १२ Jain Education a l For Private & Personel Use Only ainelibrary.org AIT

Loading...

Page Navigation
1 ... 475 476 477 478 479 480