Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पशुक्रियाभिलाषस्तु, नैतेषां तत्त्वदर्शिनाम् । प्राग्भवाभ्यस्तनवमरसाद्रीकृतचेतसाम् ॥ ३५ ॥ अतिप्रतनु- Sकर्माणो, महाभागाः सुरा अमी। इहोत्पन्नाः षष्ठभक्तक्षेप्यकर्मावशेषतः ॥ ३६॥ यदाहुः पश्चमाङ्गे-"अनुत्तरोववाइया णं देवा णं भंते ! केवइएणं कम्मावसेसेणं अणुत्तरोववाइयत्तेणं उववण्णा?, गो! जावतियन्नं छहभत्तिए समणे निग्गंथे कम्मं निजरेइ एवतिएणं कम्मावसेसेणं अणुत्तरोववाइयत्ताए उववण्णा"
इति । शाल्यादिकवलिकानां सप्तानां छेदने भवति यावान् । कालस्तावति मनुजायुष्केऽपर्याप्तवति मृत्वा Tel॥ ३७॥ मोक्षाहाध्यवसाया अपि ये कर्मावशेषतो जाताः । लवसत्तमदेवास्ते जयन्ति सर्वार्थसिद्धस्थाः
॥ ३८॥ (आर्ये) भगवतीशतक १४ उ०७। आद्यसंहननाश्चैषु, खाराधोज्वलसंयमाः। भव्याः खल्पभवा एवायान्ति यान्ति च नृष्वमी ॥ ३९॥ कर्मभूमिसमुत्पन्ना, मानुष्योऽपि शुभाशयाः। सम्यग्दृशः शुक्ललेश्या, जायन्तेऽनुत्तरेविह ॥४०॥ तथाहु:-'केरिसिया णं भंते ! मणुस्सी उक्कोसकालठिइयं आउयकम्मं बंधति?, गो० कम्मभूमीया वा' इत्यादि प्रज्ञा० त्रयोविंशतितमे पदे । मानुषी सप्तमनरकयोग्यमायुर्न बध्नाति, अनुत्तरसुरायुस्तु बनातीत्येतद्वत्तौ । जीवाः सर्वार्थसिद्धे तूद्भवन्त्येकभवोद्भवाः । च्युत्वा ते भाविनि भवे, सिद्ध्यन्ति नियमादितः॥४१॥ उक्तं च-"सबहाओ नियमा एगमि भवंमि सिज्झए जीवो। विजयाइ
विमाणेहि य संखिजभवा उ बोद्धवा ॥४२॥” चतुर्विशति भवान्नातिक्रामन्तीति तु वृद्धवादः, तथा-चतुरो.प्र.६२
वेषु विमानेषु, द्विरुत्पन्ना हि जन्तवः। अनन्तरभवेऽवश्यं, प्रयान्ति परमं पदम् ॥४३॥ तथोक्तं जीवाभिग
Jain Education Too
l
For Private Personal use only

Page Navigation
1 ... 473 474 475 476 477 478 479 480