Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| भागास्त्रय एकादशान्धयः । द्वाभ्यां भागाभ्यां समेतास्तृतीये द्वादशान्धयः ॥ ६४॥ चतुर्थे त्वेकभागाढ्यास्त्रयोदश पयोधयः । पञ्चमे प्रतरे पूर्णाश्चतुर्दशैव वार्द्धयः ॥ ६५ ॥ जघन्येन तु सर्वत्र, दशैव मकराकराः । खवस्थित्यनुसारेण, देहमानमथ ब्रुवे ॥ ६६ ॥ एकादशोद्भवैर्भागैश्वतुर्भिरधिकाः कराः । पञ्चदेहमानमत्र, दशरत्नाकरायुषाम् ॥ ६७ ॥ त्रिभागाढ्याः कराः पश्चैकादशार्णवजीविनाम् । हस्ताः पञ्च लवौ द्वौ च, द्वादशाम्भोधिजीविनाम् ॥ ६८ ॥ सैकभागाः कराः पञ्च, त्रयोदशार्णवायुषाम् । चतुर्दशाब्धिस्थितीनां, पूर्णाः पञ्च करास्तनुः ॥ ६९ ॥ ईशानस्वर्वासिनीभिर्देवीभिर्विषयेच्छवः । चिन्तामात्रोपस्थिताभी, रमन्ते ब्रह्म| देववत् ॥ ७० ॥ च्यवमानोत्पद्यमान संख्या गत्यागती अपि । अवधिज्ञानविषयः, स्यादत्र ब्रह्मलोकवत् ॥७१॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं भवेत् । दिनानि पञ्चचत्वारिंशत् क्षणश्च जघन्यतः ॥ ७२ ॥ पञ्चमे प्रतरे चात्र, | स्याल्लान्तकावतंसकः । अङ्कावतंसकादीनां मध्ये ईशाननाकवत् ॥ ७३ ॥ लान्तकस्तत्र देवेन्द्रः, पुण्यसारो विराजते । | सामानि कामरैः पञ्चाशता सेव्यः सहस्रकैः ॥ ७४ ॥ द्वाभ्यां देवसहस्राभ्यां, सेव्योऽभ्यन्तरपर्षदि । मध्यमायां चतुर्भिस्तैः षङ्गिश्च बाह्यपर्षदि ॥ ७५ ॥ युग्मम् ॥ सप्तषट्पञ्चभिः पत्योपमैः समधिका स्थितिः । द्वादशैवाम्बुनिधयस्तिसृणां पर्षदां क्रमात् ॥ ७६ ॥ आत्मरक्षकदेवानां पञ्चाशता सहस्रकैः । एकैकस्यां दिशि सेव्यो, दण्डाद्यायुधपाणिभिः ॥ ७७ ॥ प्राग्वदन्यैरपि मन्त्रित्रयस्त्रिंशकवाहनैः । सैन्यैः सैन्याधिपैलोकपालैः पालितशासनः ॥ ७८ ॥ जिनार्चनादिकं धर्म, कुर्वाणः परमार्हतः । दिव्यनाट्यदत्तचेताश्चतुर्दशा
Jain Educationational
For Private & Personal Use Only
१०
१४
jainelibrary.org

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480