SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ | भागास्त्रय एकादशान्धयः । द्वाभ्यां भागाभ्यां समेतास्तृतीये द्वादशान्धयः ॥ ६४॥ चतुर्थे त्वेकभागाढ्यास्त्रयोदश पयोधयः । पञ्चमे प्रतरे पूर्णाश्चतुर्दशैव वार्द्धयः ॥ ६५ ॥ जघन्येन तु सर्वत्र, दशैव मकराकराः । खवस्थित्यनुसारेण, देहमानमथ ब्रुवे ॥ ६६ ॥ एकादशोद्भवैर्भागैश्वतुर्भिरधिकाः कराः । पञ्चदेहमानमत्र, दशरत्नाकरायुषाम् ॥ ६७ ॥ त्रिभागाढ्याः कराः पश्चैकादशार्णवजीविनाम् । हस्ताः पञ्च लवौ द्वौ च, द्वादशाम्भोधिजीविनाम् ॥ ६८ ॥ सैकभागाः कराः पञ्च, त्रयोदशार्णवायुषाम् । चतुर्दशाब्धिस्थितीनां, पूर्णाः पञ्च करास्तनुः ॥ ६९ ॥ ईशानस्वर्वासिनीभिर्देवीभिर्विषयेच्छवः । चिन्तामात्रोपस्थिताभी, रमन्ते ब्रह्म| देववत् ॥ ७० ॥ च्यवमानोत्पद्यमान संख्या गत्यागती अपि । अवधिज्ञानविषयः, स्यादत्र ब्रह्मलोकवत् ॥७१॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं भवेत् । दिनानि पञ्चचत्वारिंशत् क्षणश्च जघन्यतः ॥ ७२ ॥ पञ्चमे प्रतरे चात्र, | स्याल्लान्तकावतंसकः । अङ्कावतंसकादीनां मध्ये ईशाननाकवत् ॥ ७३ ॥ लान्तकस्तत्र देवेन्द्रः, पुण्यसारो विराजते । | सामानि कामरैः पञ्चाशता सेव्यः सहस्रकैः ॥ ७४ ॥ द्वाभ्यां देवसहस्राभ्यां, सेव्योऽभ्यन्तरपर्षदि । मध्यमायां चतुर्भिस्तैः षङ्गिश्च बाह्यपर्षदि ॥ ७५ ॥ युग्मम् ॥ सप्तषट्पञ्चभिः पत्योपमैः समधिका स्थितिः । द्वादशैवाम्बुनिधयस्तिसृणां पर्षदां क्रमात् ॥ ७६ ॥ आत्मरक्षकदेवानां पञ्चाशता सहस्रकैः । एकैकस्यां दिशि सेव्यो, दण्डाद्यायुधपाणिभिः ॥ ७७ ॥ प्राग्वदन्यैरपि मन्त्रित्रयस्त्रिंशकवाहनैः । सैन्यैः सैन्याधिपैलोकपालैः पालितशासनः ॥ ७८ ॥ जिनार्चनादिकं धर्म, कुर्वाणः परमार्हतः । दिव्यनाट्यदत्तचेताश्चतुर्दशा Jain Educationational For Private & Personal Use Only १० १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy