________________
लोकप्रकाशे तृतीयाद्या देवलोकाः
॥ ३५४ ॥
Jain Educat
व्धिजीवितः ॥ ७९ ॥ सातिरेकानष्ट जम्बूद्वीपान् पूरयितुं क्षमः । रूपैर्विकुर्वितैस्तिर्यगसंख्यद्वीपतोयधीन् ॥ ८० ॥ स विमान सहस्राणां पञ्चाशतोऽप्यधीश्वरः । साम्राज्यं शास्ति देवानां, लान्तकस्वर्गवा सिनाम् ॥ ८१ ॥ पञ्चभिः कुलकं ॥ अस्य यानविमानं च भवेत्कामगमाभिधम् । देवः कामगमाभिख्यो, नियुक्तस्तद्विकुर्वणे ॥ ८२ ॥
वैमानिकाः किल्विषिकास्त्रिधा भवन्ति तद्यथा । त्रयोदशाधित्र्यम्भोधित्रिपल्योपमजीविनः ॥ ८३ ॥ तत्र च - वसन्ति लान्तकस्याधस्त्रयोदशाब्धिजीविनः । अधः सनत्कुमारस्य, त्र्यम्भोधिजीविनः पुनः ॥ ८४ ॥ त्रिपल्यस्थितयस्ते च, सौधर्मेशानयोरधः । स्थानमेवं किल्विधिकसुराणां त्रिविधं स्मृतम् ॥ ८५ ॥ नन्वत्राधःशब्देन किमभिधीयते ? अधस्तनं प्रस्तदं, तस्मादप्यधोदेशो वा ? अन्यच द्वात्रिंशल्लक्षविमानमध्ये साधारण| देवीनामिवैतेषां कतिचिद्विमानानि सन्ति, विमानैकदेशे वा विमानाद्वहिर्वा तिष्ठन्ति ते इति, अत्रोच्यते| अत्राधः शब्दस्तत्स्थानवाचको ज्ञेयो, यतोऽत्राधः शब्दः प्रथमप्रस्तटार्थो न घटते तृतीयषष्ठकल्पसत्ककिल्विषिकामराणां तत्प्रथमप्रस्तदयोस्त्रिसागरोपमत्रयोदश सागरोपमस्थित्योरसंभवात्, तथा तद्विमानानां संख्या शास्त्रे नोपलभ्यते, तथा देवलोकगतद्वात्रिंशल्लक्षविमानसंख्यामध्ये तद्विमानगणनं न संभाव्यते इति, तत्त्वं सर्वविद्वेद्यमिति वृद्धाः ॥ अमी च चण्डालप्राया, निन्यकर्माधिकारिणः । अस्पृश्यत्वादन्य देवैर्धिकृतास्तर्जना| दिभिः ॥ ८६ ॥ देवलोके विमानेषु स्वधाभुकूपर्षदादिषु । कौतुकादिसंगतेषु देवानां निकरेषु च ॥ ८७ ॥
ational
For Private & Personal Use Only
लांतके देहमानादि
किल्बि
षिकाः
२०
२५
॥ ३५४ ॥
२८
w.jainelibrary.org