SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सो. प्र. ६० Jain Education अष्टाहिकाद्युत्सवेषु, जिनजन्मोत्सवादिषु । अप्राप्नुवन्तः स्थानं ते, खं शोचन्ति विषादिनः ॥ ८८ ॥ आचार्योपाध्यायगच्छ संघप्रतीपवर्त्तिनः । येऽवर्णवादिनस्तेषामयशःकारिणोऽपि च ॥ ८९ ॥ असद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशकैः । व्युद्ग्राहयन्तः स्वात्मानं परं तदुभयं तथा ॥ ९० ॥ प्रतिपाल्यापि चारित्रपर्यायं वत्सरान् बहून्। तेऽनालोच्याप्रतिक्रम्य, तत्कर्माशर्मकारणम् ॥ ९१ ॥ त्रयाणां किल्विषिकानां मध्ये भवन्ति कुत्रचित् । तादृशव्रतपर्यायापेक्षया स्थितिशालिनः ॥ ९२ ॥ एभ्ययुत्वा देवनरतिर्यग्नारकजन्मसु । चतुरः पञ्च वा वारान् भ्रान्त्वा सिद्ध्यन्ति केचन ॥ ९३ ॥ केचित्पुनरर्हदादिनिविडाशातनाकृतः । कृतानन्तभवा भीमं भ्राम्यन्ति भवसागरम् ॥ ९४ ॥ तथाहुः - “ देवकिविसिया णं भंते! ताओ देवलोगाओ" इत्यादि । जामेयोऽपि च जामाता, यथा वीरजगद्गुरोः । जमालिः किल्विषिकेषूत्पन्नो लान्तकवासिषु ॥ ९५ ॥ स हि क्षत्रियकुण्डस्थः, क्षत्रियस्ताण्डवादिषु । मग्नः श्रुत्वा महावीरमागतं वन्दितुं गतः ॥ ९६ ॥ श्रुत्वोपदेशं संवि नोऽनुज्ञाप्य पितरौ व्रतम् । जग्राह पश्चभिः पुंसां, शतैः सह महामहैः ॥ ९७ ॥ अधीतैकादशाङ्गीकस्तयैवार्ह - दनुज्ञया । सेव्यः साधुपञ्चशत्या चकारानेकधा तपः ॥ ९८ ॥ पप्रच्छ चैकदाऽर्हन्तं, विजिहीर्षुः पृथग जिनात् । तूष्णीं तस्थौ प्रभुरपि, जानस्तद्भाववैशसम् ॥ ९९ ॥ अननुज्ञात एवैष, उपेक्ष्य जगदीश्वरम् । विहरन् सहितः शिष्यैः, श्रावस्तीं नगरीं ययौ ॥ ३०० ॥ तत्र तस्यान्यदा प्रान्ताद्यशनेन ज्वरोऽभवत् । शिष्यान् शिशयिषुः संस्तारकक्लृप्त्यै समादिशत् ॥ १ ॥ तमास्तरन्ति ते यावत्तावदेषोऽतिपीडितः । ऊचे संस्तारको For Private & Personal Use Only १० १४ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy