________________
लोकप्रकाश तृतीयाद्या देवलोकाः ॥३५५॥
हन्त, कृतोऽथ कियतेऽथवा ? ॥२॥ द्रागेष क्रियते खामिन् !, श्रुत्वेति शिष्यभाषितम् । मिथ्याविपर्यस्तम- किल्विषितिरिति चेतस्यचिन्तयत् ॥३॥ प्रत्यक्षं क्रियमाणोऽयमकृतो यन्न युज्यते । क्रियमाणं कृतमिति, तत्किमाहा-केषु जमाले|न्तिमो जिनः१॥४॥ ध्यावेति सर्वानाहूय, शिष्यानेषोऽब्रवीदिति । कृतमेव कृतं वस्तु, क्रियमाणं न। रधिकारः तत्तथा ॥५॥ क्रियमाणं कृतं किंचिन्न चेदाद्यक्षणादिषु । सर्वमन्त्यक्षणे तर्हि, तत्कत्तुं शक्यते कथम् ॥६॥ देशतः कृतमेवेति, क्रियमाणं क्षणे क्षणे । जीर्यमाणं जीर्णमेवं, चलचलितमेव च ॥७॥ युग्मम् । इत्यादियु|क्तिभिः शिष्योंधितोऽपि कदाग्रही । कैश्चिद्धर्मार्थिभिस्त्यक्तः, कैश्चित्स एव चाहतः॥८॥ यैस्त्यक्तस्ते महावीरं, चम्पायां पुरि संस्थितम् । अभ्युपेत्य गुरुकृत्योद्युक्ताः खार्थमसाधयन् ॥९॥क्रमाद्विमुक्तो रोगेणद्रव्यतो न तु भावतः। जमालिरपि चम्पायामुपवीरमुपागतः ॥१०॥ कदाग्रहग्रहग्रस्तः, प्रशस्तधिषणाबलः। इत्याललाप भगवन् !, भवच्छिष्या: परे यथा ॥ ११॥ छद्मस्था न तथैवाहं, किंतु जातोऽस्मि केवली। इति ब्रुवाणं भगवानिन्द्रभूतिस्तमब्रवीत् ॥ १२॥ ज्ञानं केवलिनः शक्यं, नावरीतुं पटादिभिः। यदि त्वं केवली तर्हि, प्रश्नयो, कुरूत्तरम् ॥ १३ ॥ जमाले ! नन्वसौ लोकः, शाश्वतोऽशाश्वतोऽथवा ?। जीवोऽप्यशाश्वतः किं वा, शाश्वतस्तद्वद द्रुतम् ॥ १४ ॥ जगद्गुरुप्रत्यनीकतया प्रश्नमपीदृशम् । सोऽक्षमः प्रत्यवस्थातुं, बभूव मलि-18|॥३५५॥ नाननः॥१५॥ ततः स वीरनाथेन, प्रोक्तः किं मुह्यसीह भोः ? शाश्वताशाश्वती ह्येतो, द्रव्यपर्यायभेदतः ॥ १६॥ छद्मस्थाः सन्ति मे शिष्या, ईदृप्रश्नोत्तरे क्षमाः। अनेके न तु ते त्वद्धदसत्सार्वयशंसिनः॥१७॥
Jain Educati
o nal
For Private Personel Use Only