Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 462
________________ लोकप्रकाशे २७ सर्गे आरणाच्युतयोः ॥ ३६० ॥ Jain Education तिनिर्मलाम् । बहुपर्यायां च तत्राप्यारणेभ्यः परेऽधिकाम् ॥ ४४ ॥ अथात्र प्रतरे तुर्ये, स्यात्प्राणतावतंसकः । सौधर्मवदशोकाद्यवतंसकचतुष्कयुक् ॥ ४५ ॥ प्राणतः स्वः पतिस्तत्रोत्पन्नोऽत्यन्तपराक्रमः । कृत्वाऽर्हत्प्रतिमाद्यर्चा, सिंहासने निषीदति ॥ ४६ ॥ शतैरर्द्धतृतीयैः स, सेव्योऽभ्यन्तरपर्षदाम् । पञ्चपल्याधिकैकोनविंशयम्भोधिजीविनाम् ॥ ४७ ॥ पञ्चभिश्च देवशतैर्जुष्टो मध्यमपर्षदाम् । चतुः पल्याधिकैकोनविंशत्यर्णवजीविभिः ॥ ४८ ॥ एकदेवसहस्रेण, सेवितो बाह्यपर्षदि । स त्रिपल्योपमैकोनविंशत्यर्णवजीविना ॥ ४९ ॥ सामानिकानां विंशत्या, सहस्रैः परितो वृतः । एकैकस्यां दिशि वृतस्तावद्भिरङ्गरक्षकैः ॥ ५० ॥ त्रयस्त्रिंशलोकपालैः, सैन्यैः सैन्याधिकारिभिः । आनतप्राणत खर्गवासिभिश्चापरैरपि ॥ ५१ ॥ अनेकैर्देवनिकरैः, समारावितशासनः । द्वयोस्ताविषयोरीष्टे, स विंशत्यब्धिजीवितः ॥ ५२॥ षङ्गिः कुलकं ॥ अस्य यानविमानं च, वरनाम्ना प्रकीर्त्तितम् । वराभिधानो देवश्च, नियुक्तस्तद्विकुर्वणे ॥ ५३ ॥ द्वात्रिंशदेष संपूर्णान्, जम्बूद्वीपान् विकुर्वितैः । रूपैर्भतुं क्षमस्तिर्यगसंख्यान् द्वीपवारिधीन् ॥ ६४॥ अधानतप्राणतयोरूर्ध्वं दूरमतिक्रमे । असंख्येययोजनानामुभौ खर्गो प्रतिष्ठितौ ॥ ५५ ॥ आरणाच्युतनामानौ, सामानौ मणीमयैः । विमानैर्योगविद् ध्यानैरिवानन्दमहोमयैः ॥५६॥ युग्मम् । चत्वारः प्रतराः प्राग्वद्, द्वयोः साधारणा इह । प्रतिप्रतरमेकैकं, मध्यभागे तथेन्द्रकम् ॥ ५७ ॥ पुष्पसंज्ञमलङ्कारं, चारणं चाच्युतं क्रमात् । एभ्यश्चतुर्दिशं प्राग्वत्पतयश्च प्रकीर्णकाः ॥ ५८ ॥ चतुस्त्रिद्व्येक संयुक्ता, दशैतेषु क्रमादिह । प्रतिपङ्क्ति विमा tional For Private & Personal Use Only विमानादि २० २५ ॥ ३६० ॥ २८ Wainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480