Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
स्मृताः ॥ ४८ ॥ पुष्पावकीर्णकाभावादाद्य ग्रैवेयकत्रिके । सर्वसंख्यापि पाङ्क्तेय संख्यामा नातिरिच्यते ॥ ४९ ॥ स्युस्त्रयोविंशतिर्वृत्ताः सेन्द्रका मध्यमत्रिके । व्यस्रा अष्टाविंशतिश्च चतुरस्रा जिनैर्मिताः ॥ ५० ॥ द्वात्रिंशत्पुष्पावकीर्णाः, सप्तोत्तरं शतं समे । तृतीये च त्रिके वृत्ता, एकादश सहेन्द्रकाः ॥ ५१ ॥ त्रयस्राश्च चतुरस्त्राव, पोडश द्वादश क्रमात् । पुष्पावकीर्णका एकषष्टिः शतं च मीलिताः ||१२|| ग्रैवेयकेषु नवसु, विमानाः सर्वसंख्यया । अष्टादशाढ्या त्रिशती, वृत्ताश्चैकोनसप्ततिः ॥ ५३ ॥ व्यस्राश्चतुरशीतिश्च चतुरस्रा द्विसप्ततिः । सर्वाग्रेण त्रिनवतिश्चैषु पुष्पावकीर्णकाः ॥ ५४ ॥ द्वाविंशतिर्योजनानां शतानि पीठपुष्टता । प्रासादाश्च दश शतान्यन्त्रोच्चाः कम्रकेतवः ॥ ५५ ॥ एषु देवतयोत्पन्ना, जीवाः सुकृतशालिनः । सुखानि भुञ्जते मञ्जुतेजसः । सततोत्सवाः ॥५६॥ सर्वेऽहमिन्द्रा अप्रेष्या, अनीशा अपुरोहिताः । तुल्यानुभावास्तुल्याभावलरूपयशः सुखाः ॥ ५७ ॥ खाभाविकाङ्गा एवामी, अकृतोत्तरवैक्रियाः । वखालङ्काररहिताः, प्रकृतिस्था विभूषया ॥ ५८ ॥ | तथाहु:-- “ गेवेज्जगदेवाणं भंते ! सरीरा केरिसा विभूसाए पण्णत्ता ?, गो० ! गेविजगदेवाणं एगे भवधारणिजे सरीरे, ते णं आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता" इति जीवाभिगमे । यथाजाता अपि सदा, दर्शनीया मनोरमाः । प्रसृखरैर्द्युतिभरैद्यतयन्तो दिशो दश ॥ ५९ ॥ यास्तु सन्ति तत्र चैत्ये, प्रतिमाः श्रीमदर्हताम् । भावतस्ताः पूजयन्ति साधुवद् द्रव्यतस्तु न ॥ ६० ॥ गीतवादिनाव्यादिविनोदो नात्र कर्हि चित् । गमनागमनं कल्याणकादिष्वपि न क्वचित् ॥ ६१ ॥ तथोक्तं तत्त्वार्थवृत्तौ - "ग्रैवेयकादयस्तु यथावस्थिता
For Private & Personal Use Only
१०
१४
relibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480