Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 440
________________ लोकप्रकाशे तृतीयाद्या देवलोकाः ॥३४९॥ ॥ ३७ ॥ अष्टाकूपारायुषां तु देहमानं भवेदिह । कराः पञ्चैकादशांशैः, षङ्गिरभ्यधिका अथ ॥ ३८ ॥ नवान्धिजीविनां पञ्च, कराः पञ्चलवाधिकाः । दशार्णवायुषां पञ्च, कराश्चतुर्लवाधिकाः ॥ ३९ ॥ स्यादेतेषां | निजनिजस्थितिसागरसंमितैः । भुक्तिर्वर्षाणां सहस्रैः, पक्षैरुच्छ्वास ईरितः ॥ ४० ॥ एषां कामाभिलाषे तु, देव्योऽभ्यायान्ति चिन्तिताः । सौधर्मस्वर्गवास्तव्यास्तद्योग्याः कान्तिभासुराः ॥ ४१ ॥ तद्राजधानी स्थानीयं, मनोभवमहीपतेः । दिव्यमुन्मादजनकं, स्वरूपं स्वर्गयोषिताम् ॥ ४२ ॥ विलोकयन्तस्तेऽक्षामकामाभिरामया दृशा । प्रतीच्छन्तः कटाक्षांश्च तासामाकूतकोमलान् ॥ ४३ ॥ एवं पश्यन्त एवामी, तृप्यन्ति सुरतैरिव । प्रागुतापेक्षया खल्पकामोद्रेकाः सुधाभुजः ॥ ४४ ॥ देव्योऽपि ताः परिणतैस्तादृग्दिव्यानुभावतः । दूरादपि निजाङ्गेषु, तृप्यन्ति शुक्रपुद्गलैः ॥ ४५ ॥ सेवार्तेन विना ये स्युः, पञ्चसंहननाञ्चिताः । गर्भजास्ते नृतिर्यश्च, उत्पद्यतेऽत्र ताविषे ॥ ४६ ॥ दृतिरश्चोरेव गर्भजयोश्युत्वोद्भवन्त्यमी । च्यवमानोत्पद्यमान संख्या त्वत्रापि पूर्ववत् ॥ ४७ ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं यदि । द्वाविंशतिर्दिनान्यर्द्धाधिकान्येव भवेत्तदा ॥ ४८ ॥ वसुमत्यास्तृतीयायाः, पश्यन्त्यधस्तलावधि । इहत्या निर्जराः स्वच्छतमेनावधिचक्षुषा ॥ ४९ ॥ अत्रापि प्रतरे षष्ठे, ब्रह्मलोकावतंसकः । अशोकाद्यवतंसानां मध्ये सौधर्मवद्भवेत् ॥ ५० ॥ तत्र च ब्रह्मलोकेन्द्रो, देवराजो विराजते । सामानिकसुरैः षष्ट्या, सहस्रैः सेवितोऽभितः ॥ ५१ ॥ पञ्चपल्योपमोपेत सार्द्धाष्टसागरायुषाम् । Jain Education rational For Private & Personal Use Only वृत्तादिसंख्या वर्णकामोत्पत्यादि २० २५ ॥३४९ ॥ २७ jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480