SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे तृतीयाद्या देवलोकाः ॥३४९॥ ॥ ३७ ॥ अष्टाकूपारायुषां तु देहमानं भवेदिह । कराः पञ्चैकादशांशैः, षङ्गिरभ्यधिका अथ ॥ ३८ ॥ नवान्धिजीविनां पञ्च, कराः पञ्चलवाधिकाः । दशार्णवायुषां पञ्च, कराश्चतुर्लवाधिकाः ॥ ३९ ॥ स्यादेतेषां | निजनिजस्थितिसागरसंमितैः । भुक्तिर्वर्षाणां सहस्रैः, पक्षैरुच्छ्वास ईरितः ॥ ४० ॥ एषां कामाभिलाषे तु, देव्योऽभ्यायान्ति चिन्तिताः । सौधर्मस्वर्गवास्तव्यास्तद्योग्याः कान्तिभासुराः ॥ ४१ ॥ तद्राजधानी स्थानीयं, मनोभवमहीपतेः । दिव्यमुन्मादजनकं, स्वरूपं स्वर्गयोषिताम् ॥ ४२ ॥ विलोकयन्तस्तेऽक्षामकामाभिरामया दृशा । प्रतीच्छन्तः कटाक्षांश्च तासामाकूतकोमलान् ॥ ४३ ॥ एवं पश्यन्त एवामी, तृप्यन्ति सुरतैरिव । प्रागुतापेक्षया खल्पकामोद्रेकाः सुधाभुजः ॥ ४४ ॥ देव्योऽपि ताः परिणतैस्तादृग्दिव्यानुभावतः । दूरादपि निजाङ्गेषु, तृप्यन्ति शुक्रपुद्गलैः ॥ ४५ ॥ सेवार्तेन विना ये स्युः, पञ्चसंहननाञ्चिताः । गर्भजास्ते नृतिर्यश्च, उत्पद्यतेऽत्र ताविषे ॥ ४६ ॥ दृतिरश्चोरेव गर्भजयोश्युत्वोद्भवन्त्यमी । च्यवमानोत्पद्यमान संख्या त्वत्रापि पूर्ववत् ॥ ४७ ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं यदि । द्वाविंशतिर्दिनान्यर्द्धाधिकान्येव भवेत्तदा ॥ ४८ ॥ वसुमत्यास्तृतीयायाः, पश्यन्त्यधस्तलावधि । इहत्या निर्जराः स्वच्छतमेनावधिचक्षुषा ॥ ४९ ॥ अत्रापि प्रतरे षष्ठे, ब्रह्मलोकावतंसकः । अशोकाद्यवतंसानां मध्ये सौधर्मवद्भवेत् ॥ ५० ॥ तत्र च ब्रह्मलोकेन्द्रो, देवराजो विराजते । सामानिकसुरैः षष्ट्या, सहस्रैः सेवितोऽभितः ॥ ५१ ॥ पञ्चपल्योपमोपेत सार्द्धाष्टसागरायुषाम् । Jain Education rational For Private & Personal Use Only वृत्तादिसंख्या वर्णकामोत्पत्यादि २० २५ ॥३४९ ॥ २७ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy