Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुःसहस्या देवानामन्तःपर्षदि सेवितः ॥५२॥ षड्भिर्देवसहस्रश्च, मध्यपर्षदि सेवितः । चतुःपल्योपमोपेत. साष्टाम्भोधिजीविभिः॥५३॥ बाह्यपर्षदि देवानां, सहस्रैरष्टभिर्वृतः। पल्योपमत्रयोपेतसाष्टिवार्द्धिजीविभिः॥५४॥ त्रायस्त्रिंशैलॊकपालमित्रमत्रिपुरोहितः । प्राग्वद्यानविमानाद्यधिकारिवाहनादिभिः॥५५॥ एकैकस्यां दिशि षष्ट्या, सहस्ररात्मरक्षकैः । अनीकैः सप्तभिः ससभिः सेव्योऽनीकनायकैः ॥५६॥ अन्येषामप्यनेकेषां, देवानां ब्रह्मवासिनाम् । विमानावासलक्षाणां, चतुर्णामप्यधीश्वरः॥ ५७ ॥ जम्बूद्वीपानष्ट पूर्णान् , रूपैनव्यैर्विकुर्वितैः । क्षमः पूरयितुं तिर्यगसंख्यद्वीपवारिधीन ॥ ५८ ॥ कृतार्हदर्चनः प्राग्वद्धर्मस्थिति-1 विशारदः । साम्राज्यं शास्ति संपूर्णदशसागरजीवितः॥ ५९॥ नवभिः कुलकं ॥ अस्य यानविमानं च, नन्द्यावर्त्तमिति स्मृतम् । नन्द्यावाभिधो देवो, नियुक्तस्तद्विकुर्वणे ॥६०॥ ___ अथास्य ब्रह्मलोकस्य, वरिष्ठे रिष्टनामनि । तृतीयप्रतरे सन्ति, लोकान्तिकाः सुरोत्तमाः॥ ६१॥ तथाह्यतिक्रम्य तिर्यग, जम्बूद्वीपादितः परम् । द्वीपाम्बुधीनसंख्येयान् , द्वीपोऽरुणवरः स्थितः॥६२॥ स्थानद्विगुण-1 विस्तीर्णतया सोऽसंख्यविस्तृतः। द्विगुणेनायमरुणवरेण वेष्टितोऽब्धिना ॥ १३॥ अथ द्वीपस्यास्य बाह्यवेदिकान्तप्रदेशतः । अवगाह्यारुणवरनामधेयं पयोनिधिम् ॥ ६४॥ योजनानां सहस्रान् द्वाचत्वारिंशतमन्न च । जलोपरितलार्ध्वमप्कायविकृतिमहान् ॥६५॥ तमस्कायो महाघोरान्धकाररूप उद्गतः । परितोऽ| धामम रुन्धन् , वलयाकृतिनाऽऽत्मना ॥ ६६ ॥ स्थिरार्केन्टुकरक्लिष्टः, संभृय तिमिरैरिव । रचितः1%
Jain Education
a
l
For Private Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480