Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाश २६ ऊर्ध्वलोकस
॥३४३॥
Jain Educatio
योर्वाच्यो, व्यत्ययो लोकपालयोः ॥ २८ ॥ यथा तृतीयेन्द्रस्यैते क्रमात्सौधर्मराजवत् । चतुर्थेन्द्रस्य चेशाने, | सुरेन्द्रस्येव ते क्रमात् ॥ २९ विमानानां चतुर्णामप्येषामधो विवर्त्तिनि । तिर्यग्लोके राजधान्यञ्चतस्रः प्राग्य| दाहिताः ॥ ३० ॥ सौधर्मेशानेन्द्र लोकपालानां यास्तु वर्णिताः । नगर्यः कुण्डलद्वीपे द्वात्रिंशत्तास्त्वितः पराः ॥ ३१ ॥ स्थितिश्च सोमयमयोः, पल्योपमद्वयं भवेत् । पल्योपमस्य चैकेन, तृतीयांशेन वर्जितम् ॥ ३२ ॥ पूर्ण वैश्रमणस्याथ, स्थितिः पल्योपमद्वयम् । तृतीयांशाधिकं पल्यद्वयं च वरुणस्य सा ॥ ३३ ॥ पृथ्वी राजी च रयणी, विद्युश्चेत्यभिधानतः । चतुर्णामप्यमीषां स्युश्चतस्रः प्राणवल्लभाः ॥ ३४ ॥ एषामपत्यस्थानी| यदेववक्तव्यतादिकम् । सर्वमप्यनुसंधेयं, सुधिया पूर्ववर्णितम् ॥ ३५ ॥ किंचमीषामौत्तराहा, वश्याः स्युरसुरादयः । उदीच्यामेव निखिलोऽधिकारः पूर्ववर्णितः ॥ ३६ ॥ तथाहु:- "चउसु विमाणेसु चत्तारि उद्देसा अपरिसेसा, नवरं ठितीए णाणतं - आदिदुगि तिभागूणा पलिया धणयस्स होंति दो चेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ॥ ३७ ॥ भग०" तथा-स्थितेरल्पत्वेऽप्यमीषामाज्ञैश्वर्यं भवेन्महत् । लोकेs| ल्पविभवत्वेऽपि, नृपाधिकारिणामिव ॥ ३८ ॥ उक्ता दशाधिपतयः, सौधर्मेशानयोर्यतः । सूत्रे तत्र सुरेन्द्रौ द्रौ, लोकपालास्तथाऽष्ट च ॥ ३९ ॥ तथाहु: - " सोहम्मीसाणेसु णं भंते! कप्पे कइ देवा आहेवचं जाव विहरंति ?, गो० ! दस देवा जाव विहरंति" इत्यादि भगवती सूत्रे । एवमीशानदेवेन्द्रः, सामानिकादिभिर्वृतः । विमानावासलक्षाणामिहाष्टाविंशतेः प्रभुः ॥ ४० ॥ उत्तरार्द्धलोकनेता, कान्त्या विद्योतयन् दिशः । असं
tional
For Private & Personal Use Only
ईशानेन्द्रतलोकपाला:
२०
२५
॥३४३॥
२८
jainelibrary.org

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480