SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश २६ ऊर्ध्वलोकस ॥३४३॥ Jain Educatio योर्वाच्यो, व्यत्ययो लोकपालयोः ॥ २८ ॥ यथा तृतीयेन्द्रस्यैते क्रमात्सौधर्मराजवत् । चतुर्थेन्द्रस्य चेशाने, | सुरेन्द्रस्येव ते क्रमात् ॥ २९ विमानानां चतुर्णामप्येषामधो विवर्त्तिनि । तिर्यग्लोके राजधान्यञ्चतस्रः प्राग्य| दाहिताः ॥ ३० ॥ सौधर्मेशानेन्द्र लोकपालानां यास्तु वर्णिताः । नगर्यः कुण्डलद्वीपे द्वात्रिंशत्तास्त्वितः पराः ॥ ३१ ॥ स्थितिश्च सोमयमयोः, पल्योपमद्वयं भवेत् । पल्योपमस्य चैकेन, तृतीयांशेन वर्जितम् ॥ ३२ ॥ पूर्ण वैश्रमणस्याथ, स्थितिः पल्योपमद्वयम् । तृतीयांशाधिकं पल्यद्वयं च वरुणस्य सा ॥ ३३ ॥ पृथ्वी राजी च रयणी, विद्युश्चेत्यभिधानतः । चतुर्णामप्यमीषां स्युश्चतस्रः प्राणवल्लभाः ॥ ३४ ॥ एषामपत्यस्थानी| यदेववक्तव्यतादिकम् । सर्वमप्यनुसंधेयं, सुधिया पूर्ववर्णितम् ॥ ३५ ॥ किंचमीषामौत्तराहा, वश्याः स्युरसुरादयः । उदीच्यामेव निखिलोऽधिकारः पूर्ववर्णितः ॥ ३६ ॥ तथाहु:- "चउसु विमाणेसु चत्तारि उद्देसा अपरिसेसा, नवरं ठितीए णाणतं - आदिदुगि तिभागूणा पलिया धणयस्स होंति दो चेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ॥ ३७ ॥ भग०" तथा-स्थितेरल्पत्वेऽप्यमीषामाज्ञैश्वर्यं भवेन्महत् । लोकेs| ल्पविभवत्वेऽपि, नृपाधिकारिणामिव ॥ ३८ ॥ उक्ता दशाधिपतयः, सौधर्मेशानयोर्यतः । सूत्रे तत्र सुरेन्द्रौ द्रौ, लोकपालास्तथाऽष्ट च ॥ ३९ ॥ तथाहु: - " सोहम्मीसाणेसु णं भंते! कप्पे कइ देवा आहेवचं जाव विहरंति ?, गो० ! दस देवा जाव विहरंति" इत्यादि भगवती सूत्रे । एवमीशानदेवेन्द्रः, सामानिकादिभिर्वृतः । विमानावासलक्षाणामिहाष्टाविंशतेः प्रभुः ॥ ४० ॥ उत्तरार्द्धलोकनेता, कान्त्या विद्योतयन् दिशः । असं tional For Private & Personal Use Only ईशानेन्द्रतलोकपाला: २० २५ ॥३४३॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy