________________
ख्यदेवीदेवानामीशानखर्गवासिनाम् ॥४१॥ आधिपत्यमनुभवत्युदात्तपुण्यवैभवः । प्रतापनिस्तुलः शूलपाणिवृषभवाहनः॥४२॥ त्रिभिर्विशेषकं । अहो माहात्म्यमस्योच्चैर्यत्सौधर्मेश्वरोऽपि हि । आइतः पार्श्वमभ्येतु क्षमते न त्वनादृतः॥४३॥ एवमालापसंलापौ, कत्तुं संमुखमीक्षितुम् । अनेन सह सौधर्माधीशोऽनीशो ह्यनादृतः॥४४॥ ईशानेन्द्रस्तु सौधर्माधिपतेरन्तिकं सुखम् । यातीक्षते जल्पति च, नास्यानुज्ञामपेक्षते ॥४५॥ एवमुत्पन्नेषु नानाकार्येषु च परस्परम् । संभूय गोष्ठीमप्येतो, कुर्वते प्रश्रयाश्रयौ ॥ ४६॥ गच्छेत्कदाचिदीशाननाथोऽपि प्रथमान्तिकम् । सौधर्मेन्द्रोऽप्यनुज्ञाप्य, यायादेतस्य सन्निधौ ॥४७॥ भो दक्षिणा लोकेन्द्र, सौधर्मेन्द्र ! हितावहम् । कार्यमेतदिति गिरा, वदेदीशाननायकः ॥४८॥ उत्तरार्द्धलोकनेतर्भा ईशानसुरेश्वर! सत्यमित्यादिकृत्यौघानुभौ विमृशतो मिथः॥४९॥ तथाहु:-'पभू णं भंते! सके देविंदे देवराया ईसाणस्स देविंदस्स देवरपणो अंतिअं पाउन्भवित्तए ?, हंता पभू!' इत्यादि भगवतीसूत्रे ३, १। साधारणविमानादिहेतोर्जात्वेनयोर्द्वयोः। उत्पद्यते विवादोऽपि, मिथो निर्जरराजयोः ॥५०॥ आध्मातताम्रवत्कोधात्ताम्राननविलोचनौ । कल्पान्तवहितपनाविवाशक्यनिरीक्षणौ ॥५१॥ चण्डरूपौ तदा चैतौ, कोऽन्यो वक्तुमपीश्वरः । | योऽत्र युक्तमयुक्तं वा, निर्णीय शमयत्कलिम् ॥५२॥ ततः क्षणान्तरादीषच्छान्तौ विचिन्त्य चेतसा। सनत्कुमार देवेन्द्र, स्मरतस्तावुभावपि ॥५३॥ सोऽपि ताभ्यां स्मर्यमाणो, विज्ञायावधिना द्रुतम् । तत्रागत्य न्याय्यकार्यमाज्ञाप्य शमयेत्कलिम् ॥५४॥ ततः सनत्कुमारेन्द्रबोधितौ त्यक्तविग्रही । तदाज्ञां विभ्रतो!
१४
Jain Education
a
l
For Private & Personel Use Only
V
inelibrary.org