Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नाज्ञाता वरुणस्यैते, सर्वे तत्सेविनामपि ॥ ९५ ॥ अयं पाथ:पतिरिति, विख्यातः स्थूलदर्शिनाम् । पश्चिमाशा-18 पतिः पाशपाणिर्जलधिमन्दिरः॥९६॥ कर्कोटकः कद्दमकोऽञ्जनश्च शङ्खपालकः। पुण्ड्रः पलाशमोदश्च, जयो दधिमुखस्तथा ॥९७॥ अयंपुलः काकरिकः, सर्वेऽप्येते सुधाभुजः। वरुणस्याधीश्वरस्य, भवन्त्यपत्यवत्प्रियाः॥९८॥ अनुवेलन्धरं नागावासः कर्कोटकाचल ऐशान्यांलवणाधौ तत्वामी कर्कोटका सुरः॥९९॥ विद्युत्प्रभाद्रिराग्नेय्यां, तस्य कईमकः पतिः । अञ्जनस्तु लोकपालो, वेलंबस्य सुरेशितुः॥८००॥ धरणेन्द्रलोकपालस्तुर्योऽत्र शङ्खपालकः पुंड्राद्यास्तु सुराः शेषा, न प्रतीता विशेषतः॥१॥ देशोनपल्यद्वितयस्थितिरेष मनोरमान् । वरुणाख्यो महाराजो, भुले भोगाननेकधा ॥२॥ उदीच्यामथ सौधर्मावतंसकादतिक्रमे । असंख्येययोजनानां, विमानं वल्गुनामकम् ॥३॥ देवस्तत्र वैश्रमणो, विभाति सपरिच्छदः। यः सौधर्मसुरेन्द्रस्य, कोशाध्यक्ष इति श्रुतः॥४॥ अस्य सामानिकाद्या ये, तेषां भृत्याश्च ये सुराः । सुपर्णद्वीपदिग्नागकुमारा व्यन्तरा अपि ॥५॥ सर्वेऽप्येते. सदेवीका, ये चान्येऽपि तथाविधाः। भवन्ति ते वैश्रमणानुशासनवशीकृताः ॥६॥ सीसकायस्त्रपुताम्ररै- १० रत्नरजताकराः। वज्राकरा वसुधाराः, स्वर्णरत्नादिवृष्टयः॥७॥ पत्रपुष्पवीजफलमाल्यचूर्णादिवृष्टयः। वस्त्राभरणसद्गन्धभाजनक्षीरवृष्टयः ॥ ८॥ तथा सुकालदुष्कालौ, वस्त्वल्पार्घमहार्घता। मुभिक्षदुर्भिक्षगुडघृतधान्यादिसंग्रहाः॥९॥क्रयाश्च विक्रयाश्चैव, चिरत्नरत्नसंचयाः। प्रहीणखामिकादीनि, निधानानि च भूतले ॥ ॥१०॥ नेत्याचविदितं जम्बूद्वीपयाम्या गोचरम् । धनदस्य विभोर्यद्वा, नाकिनां तनिषेविणाम् ॥ ११ ॥ पूर्ण-|
Jain Educ
a
tional
For Private
Personal Use Only
jainelibrary.org

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480