Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 422
________________ अवग्रहाप ईशानेदातामलि: लोकप्रकाशे मम क्षेत्रे, विहरन्ति मुनीश्वराः ॥ ३९ ॥ तेषामवग्रहमहमनुजानामि भावतः । इत्युक्त्वाऽस्मिन् गते स्वर्ग, २६ ऊर्ध्व-18 प्रभुं पप्रच्छ गौतमः॥४०॥ सत्यवादी सत्यमाह, शक्रोऽयमथवाऽन्यथा । जिनेनापि तदा सत्यवादीत्येष प्रशं- लोकसर्गे सितः॥४१॥ एवं योऽनेकधा धर्ममाराध्येतः स्थितिक्षये । विदेहेषूत्पद्य चैकावतारो मुक्तिमाप्स्यति ॥ ४२ ॥ अस्मिंश्युते च स्थानेऽस्य, पुनरुत्पत्स्यतेऽपरः। एवमन्येऽपि शक्राद्या, यथास्थानं सुरासुराः॥४३॥ ॥३४॥ ईशानदेवलोकस्य, प्रतरेऽथ त्रयोदशे । मेरोरुत्तरतः पश्च, स्युर्विमानावतंसकाः॥ ४४ ॥ अङ्कावतंसक प्राच्यां, विमानमस्ति शस्तभम् । दक्षिणस्यां स्फटिकावतंसकाख्यं निरूपितम् ॥ ४५ ॥ अपरस्यां तथा रत्मावतंसकमिति स्मृतम् । उत्तरस्यां जातरूपावतंसकाभिधं भवेत् ॥४६॥ मध्ये चैषामथेशानावतंसकाभिधं महत् । विमानं मानतः सौधर्मावतंसकसन्निभम् ॥४७॥ तत्रोपपातशय्यायामुपपातसभास्पृशि। ईशानेन्द्रतया प्रौढपुण्य उत्पद्यतेऽसुमान् ॥ ४८॥ साम्प्रतीनस्त्वसौ जम्बूद्वीपे क्षेत्रे च भारते । ताम्रलिप्त्यां पुरि मौर्यपुत्रोऽभूत्तामलिर्धनी ॥४९॥ स चैकदा रात्रिशेषे, जाग्रचित्ते व्यचिन्तयत् । नन्वियं यन्मया लब्धा, समृद्धिः सर्वतोमुखी ॥५०॥ तत्प्राच्यप्राज्यपुण्यानां, फलमत्र न संशयः । प्रागेव संचितं भुने, हन्त नूनमनर्जयन् ॥५१॥ क्षीणेऽस्मिन् किं करिष्ये तद्भवान्तरसुखावहम् । किंचित्पुण्यमर्जयामि, गार्हस्थ्ये तु भवेन्न तत् ॥५२॥ विचिन्त्येति विचारज्ञः, प्रातः प्रीत्या कुटुम्बकम् । आकार्य ज्ञातिमित्रादीनुपचाशनादिभिः॥ ॥५३॥ कुटुम्बभारमारोप्य, ज्येष्ठपुत्रे विरक्तहत् । तानापृच्च्य दारुमयं, गृहीत्वैकं पतग्रहम् ॥ ५४॥ ॥३४॥ Jain Educatio n For Private Personal Use Only K ajainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480