Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 410
________________ लोकप्रकाशे २६ ऊर्ध्व लोकसर्गे ॥३३४॥ Jain Education स्थिताः ॥ ६९ ॥ धनुरादिप्रहरणग्रहणव्यग्रपाणयः । तूणीरखड्गफलककुन्तादिभिरलङ्कृताः ॥ ७० ॥ एकाग्र चेतसः स्वामिवदनन्यस्तदृष्टयः । श्रेणीभूताः शक्रसेवां, कुर्वते किङ्करा इव ॥ ७१ ॥ तथा सप्तास्य सैन्यानि, तत्र तादृक्प्रयोजनात् । नृत्यज्जा त्यो तुङ्गचङ्गतुरङ्गाकारधारिणाम् ॥ ७२ ॥ शूराणां युद्धसन्नद्धशस्त्रावरणशालिनाम् । निर्जराणां निकुरम्थं, हयसैन्यमिति स्मृतम् ॥ ७३ ॥ एवं गजानां कटकं, रथानामपि भास्वताम् । विविधायुधपूर्णानामश्वरूपमरुयुजाम् ॥ ७४ ॥ तथा वृषभदेवानां सैन्यमुच्छृङ्गिणां युधे । उद्भटानां पदातीनां, सैन्यमुग्रभुजोष्मणाम् ॥ ७५ ॥ एतानि पञ्च सैन्यानि गतदैन्यानि वज्रिणम् । सेवन्ते युद्धसज्जानि, नियोगेच्छूनि सन्निधौ ॥ ७६ ॥ शुद्धाङ्गनृत्य वैदग्ध्यशालिनां गुणमालिनाम् । नटानां देवदेवीनां षष्ठं सैन्यं भजत्यमुम् ॥ ७७ ॥ स्वरमाधुर्यवर्याणां, सैन्यमातोद्यभारिणाम् । गन्धर्वदेवदेवीनां सप्तमं सेवते हरिम् ॥ ७८ ॥ एतत्सैन्यद्वयं चातिचतुरं गीतताण्डवे । अविश्रमं प्रयुञ्जानमुपभोगाय वज्रिणः ॥ ७९ ॥ सप्तानामप्यथैतेषां सैन्यानां सप्त नायकाः । सदा सन्निहिताः शक्रं, विनयात् पर्युपासते ॥ ८० ॥ ते चैवं नामतो वायु १ रैरावणश्च २ माठरः ३ । स्याद्दमर्द्धि ४ हरिनैगमेषी ५ श्वेतश्च ६ तुम्बरुः ७ ॥ ८१ ॥ सप्तापि सेनापतयः स्युरेतैरेव नामभिः । तृतीयस्य पञ्चमस्य, सप्तमस्य सुरेशितुः ॥ ८२ ॥ अङ्गीकृत्य द्वादशेन्द्रानानतारणयोरपि । एतन्नामान एवामी, | स्थानाङ्गे कथिता जिनैः ॥ ८३ ॥ पादात्येशस्तत्र हरिनैगमेषीति विश्रुतः । शक्रदूतोऽतिचतुरो, नियुक्तः सर्वकर्मसु ॥ ८४ ॥ योऽसौ कार्यविशेषेण, देवराजानुशासनात् । कृत्वा मङ्क्षु त्वचछेडं, रोमरन्धैर्नखांकुरैः , tional For Private & Personal Use Only सामानिकादिवर्णनं २० २५ ॥३३४॥ २८ ainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480