Book Title: Lokprakash Part_2
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पार्श्वयोर्द्वयोः ॥१०३॥ परिभ्रमन्ति ताराणां, विमानानि भवेत्ततः। तेषां प्रागुदितं व्याघातिकं जघन्यमशान्तरम् ॥१०४॥ योजनानां सहस्राणि, द्वादश द्वे शते तथा। द्विचत्वारिंशदधिके, ज्येष्ठं व्याघातिकान्तरम् ॥१०५017
एतत्ताराविमानानां, स्यान्मेरौ व्यवधायके। यद्योजनसहस्राणि, दशासौ विस्तृतायतः ॥१०६॥ एकादश शतान्येकविंशान्यस्माच दूरतः। भ्रमन्त्युभयतस्तारास्ततः स्यादुक्तमन्तरम् ॥१०७॥ यद्यप्यूद्ध सनवतेः, सप्तशत्या व्यतिक्रमे । मेरौ यथोक्तौ न व्यासायामौ सम्भवतो यतः॥१०८॥ नवैकादशजा अंशा, योजनान्येकसप्ततिः।। इयद्भनिष्ठविष्कम्भायामादत्रास्य हीयते ॥१०९॥ परमुक्तमिदं खल्पोनताया अविवक्षया । अन्यथा प्रत्यवस्थानं, ज्ञेयं वाऽस्य बहुश्रुतात् ॥११० ॥ एवं जम्बूद्वीप एव, विज्ञेयं तारकान्तरम् । लवणाधिप्रभृतिषु, त्वेतदुक्तं न दृश्यते ॥ १११ ॥ तथोक्तं सङ्कहणीसूत्रे-"तारस्स य तारस्स य जंबूदीवम्मि अंतरं गुरुयं।" जम्बूद्वीपप्रज्ञतिसूत्रेऽपि-"जंबुद्दीवे णं दीवे ताराए २ केवइए अबाहाए अंतरे पण्णत्ते?" इत्यादि । अमी विमानाः सर्वेऽपि, समन्ततः प्रसृत्वरैः । अत्युज्वलाः प्रभापूरैर्दरीकृततमोऽङ्कराः ॥ ११२ ॥ आश्चर्यकृन्नूनरत्नखणविच्छित्तिशालिनः । वातोद्भूतवैजयन्तीपताकाकान्तमौलयः॥ ११३ ॥ छत्रातिच्छत्रकोपेताः, स्वर्णरत्नविनिर्मितैः । स्तूपि-IST काशिखरैः शस्ताः, सुखस्पर्शाः समन्ततः ॥११४ ॥ विकखरैः शतपत्रैः, पुण्डरीकैश्च पुण्डूकैः । रत्ना चन्द्र रम्याश्च, विविधैर्मणिदामभिः ॥११५ ॥ अन्तर्बहिस्तपनीयवालुकाप्रस्तटोद्भटाः। रत्नस्तम्भशतोदश्चन्मरीचि
१ सामान्येन ज्योतिषां मेरोरबाधा एकविंशत्यधिकैकादशशतमिता, ताराणां किंचिदूरतोऽवस्थानाद्वेदमन्तरं स्यात् ।
।
Jain Educati
o
nal
For Private Personel Use Only
ainelibrary.org

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480