________________
क्षेत्रगता, महानद्योऽत्र सप्ततिः। विदेहविजयस्थानां, तासां विंशं शतत्रयम् ॥ २२ ॥ अन्तर्नयः षष्टिरिति, परिच्छदजुषामिह । पञ्चाशा मुख्यसरितां, सर्वाग्रेण चतुःशती ॥२३॥ सा चैवं-गंगासिन्धुरक्तवतीरक्ताः प्रत्येकमीरिताः । पञ्चाशीतिस्तथा शीताशीतोदारूप्यकूलिकाः ॥२४॥ स्वर्णकूला नरकान्ता, नारीकान्ता च रोहिता। रोहितांशा हरिकान्ता, हर्यादिसलिलापि च ॥ २५॥ द्वादशान्तरनद्यश्च, पञ्च पञ्चाखिला इमाः। परिच्छदापगास्त्वासां, ज्ञेयाः पूर्वोक्तया दिशा ॥२६॥ एवं द्विसप्ततिलेक्षा, अशीतिश्च सहस्रकाः । भवंति मनुजक्षेत्रे, नयोऽन्यस्मिन् मते पुनः॥ २७॥ एकोननवतिर्लक्षा, सहस्राः षष्टिरेव च । एतच्चान्तरापगानां, पृथकतन्त्रविवक्षया ॥ २८ ॥ इदं च नदीसर्वाग्रं जम्बूद्वीपगतमहानदीतुल्यपरिवाराणां धातकीखण्डपुष्करार्द्धगतमहानदीनां संभावनयोक्तं, धातकीखण्डपुष्करा योमहानदीनां परिवारे जम्बूद्वीपवर्तिमहानदीपरिवारापेक्षया द्वैगुण्यादिविशेषस्तु बृहत्क्षेत्रविचारादिषु कापि न दृष्ट इति नोक्त इति ज्ञेयं । उत्कर्षतो जिना अत्र, स्युः सप्सत्यधिकं शतम् । ते द्वितीयाहेतः काले, विहरन्तोऽभवन्निह ॥ २९॥ केवलज्ञानिनामेवमुत्कर्षान्नव कोटयः। नव कोटिसहस्राणि, तथोत्कर्षेण साधवः॥३०॥ जघन्यतो विंशतिः स्युर्भगवन्तोऽधु
नापि ते । विदेहेष्वेव चत्वारश्चत्वारो विहरन्ति हि ॥ ३१ ॥ ते चामी-सीमंधरं १ स्तौमि युगंधरं ४२च, बाहुं ३ सुबाहुं ४ च मुजातदेवम् ५ । स्वयंप्रभं ६ श्रीवृषभाननाख्य ७ मनन्तवीर्य ८ च ।
विशालनाथम् ९॥ ३२॥ (उप.)। सूरमभं १० वज्रधरं ११ च चंद्राननं १२ नमामि प्रभुभद्रबाहुम् १३ ।
लो.प्र.४०
Jain Educar
For Private
Personal use only