Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 180
________________ द्वितीयविशिका १७४ www wwwwwww wwwimmaa स्वामिकत्वात् । न च वाच्य गहिलिङ्गादीनामपि केवलभावात् कथमेतदिति । लाभेऽपि तदवस्थाया न भावचारित्रेण विना केवलज्ञानलाभो। अनेन "सिज्झति चरणरहिया" इत्यपि व्याख्यात ज्ञेयम् । द्रव्यचारित्ररहिता इत्येव ह्यस्यार्थ । कषायमोहनीयादिक्षयस्य भावचारित्र विनानुपपत्तेर्युक्तमुच्यते यतिस्वामिकत्व. साधर्म्यम्, परमेतावान् विशेषो यदुत- मन पर्याय तु न द्रव्यचारित्रमन्तरापि। यद्वा-अवाप्तकेवलोऽवश्य सत्यायुषि प्रभूते द्रव्यप्रवज्ययापि प्रव्रजत्येव, अन्यथा देवादिकृतमहिम्नोऽयोगात् । स्पष्ट चैतद् भरतकेवलोदन्ते पुरन्दरस्य तथावचनेनेति, स्यादेव यतिस्वामिकत्वसाधर्म्यम् । यद्वा-यतिशब्देनाऽप्रमत्तता गृह्यत्ते, परमार्थतस्तस्या एव यतित्वात् । तथा च यथा मन पर्यायमप्रमत्तस्य प्रादुभवति, तथा केवलमप्यप्रमत्तस्यैव । न च मतिश्रुतावधयस्तथेति युक्तमप्रमत्तस्वामिकत्वेन साधर्म्यमिति । तथाऽवसानलाभात् । सर्वावरणविच्छेदलभ्य ह्येतत् । न च लब्धे एतस्मिन्नन्यत् प्राप्तव्य ज्ञानमवशिष्यते लभ्यते वा। सूर्योदयेऽन्यतेजस्व्युदयानपेक्षणमिव । तदिदमाहु-'अते केवलमुत्तम जइसा मित्तावसाणलाभाओ"त्ति । न चेद प्रकृतमत्र, क्षायिकत्वेनास्य क्षायिकभावे परिगणितत्वात्, केवल क्रमख्यापनार्थ साधर्म्य दर्शितम् । अत्र तु चतुर्णां क्षायोपशमिकाना मतिश्रुतादीना प्रस्ताव । व्युत्पत्तिस्तु ज्ञानपञ्चकस्य समयसागरादवसेया, विस्तारभयात् प्रायोऽन्वर्थसिद्धत्वाच्च नोक्ताऽत्र । तथा श्रुतमन पर्याययोभिन्नत्वेनानभ्युपगमो य. सोऽपि नयविचारापेक्षत्वादुपेक्षित । तथा अज्ञानत्रय मत्यज्ञानश्रुताज्ञान विभङ्गज्ञानरूप पूर्वोक्तमतिश्रुतावधिविपर्ययस्वरूपम् । न च वाच्य कथ नान्यज्ञान मन पर्यायादि मत्यादिवदिति, पर्यन्तज्ञानयुगलस्य मिथ्यात्वसद्भावे उत्पादायोगात्, सति च तस्मिन्मिथ्यात्वोदयस्यैवाभावाच्च। तत

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259