Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका
२०८
www.wom
तथा सिंहव्याघ्रद्वीपिश्वश्रृगालवृककोकमार्जारनकुलसर्पवायसगृध्रकाकोलकश्येनादिखादन तथा तप्तवालुकावतारणासिवनप्रवेगनवैतरण्यवतारणपरस्परयोधनादिभिरिति । स्यादेतत् किमर्थ त एव कुर्वन्तीति । अत्रोच्यते पापकर्माभिरतय इत्युक्तम् । तद्यथागो-वृषभ-महिष-वराह मेप-कुक्कुट-वार्तक-लावकान्मुष्टिमल्लांश्च युध्यमानान् परस्पर चाभिघ्नत पश्यता रागद्वेपाभिभूतानामकुगलानुवन्धिपुण्याना नराणा परा प्रीतिरत्पद्यते । तथा तेपाममुराणा नारकॉस्तथा तानि कारयतामन्योऽन्य घ्नतश्च पश्यता परा प्रीति - रुत्पद्यते । ते हि दुप्टकन्दस्तिथाभूतान् दृष्ट वाट्टहास मुञ्चन्ति चेलोत्क्षेपान्ध्वेडितास्फोटितावल्लिततलतालनिपातनॉश्च कुर्वन्ति महतश्च सिहनादानदन्ति । तच्च तेपा सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीवकपायोपहतस्याऽनालोचितभावदोपस्याऽप्रत्यवमर्पस्याऽकुशलानुवन्धिपुण्यकर्मणो वालतपसश्च भावदोषानुकर्पिण फल यत् सत्स्वप्यन्येपु प्रीतिहेतुष्वगुभा एव प्रीतिहेतवः समुत्पद्यन्ते। इत्येवमप्रीतिकर निरन्तर सुतीव्र दुखमनुभवता मरणमेव काडक्षता तेषा न विपत्तिरकाले विद्यते कर्मनिर्धारितायुषाम् । उक्त हि-'औपपातिक-चरमदेहोत्तमपुरुपासख्येयवायुपोऽनपर्वायुप" [तत्त्वार्थ०] इति । नैव तत्र शरण विद्यते । नाप्यपक्रमणम् । तत कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेपा सद्य एव सरोहन्ति शरीराणि दण्डराजिरिवाम्भसीति । एवमेतानि त्रिविधानि दुखानि नरकेपु नारकाणा भवन्तीति । विपार्थिना तु जीवाभिगमादिक समयसागरोऽवगाहनीय । अत्र च भिन्नभिन्नग्रन्थग्रथितपाठानामुल्लेखाद्विशेपतोऽवभासिप्यते पौनरुक्त्यम्, तथापि नानुशयोऽनुशयवद्भिविधेयोऽस्मासु कथञ्चिद्विशेपदर्शनाभिप्रायेण पुन. पुनरावर्त्तनेन

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259