Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 247
________________ द्वितीर्यावशिका २४१ सस्थानत्वाभावात् । न च निष्पद्यन्ते तान्यनुररीकृत्य लक्षणानि समस्तानाम् । न च वाच्य व्यस्रचतुष्केण भविष्यति चतुरस्रं, तन्नार्थ पृथक् चतुरस्रसस्थानेनेति । स्थूलपदार्थाना व्यस्रचतुष्केण कथञ्चितयाभावेऽपि प्रदेशनिष्पन्नाना तेषा समुदिताना तथाऽऽकृत्यभावात् । मध्ये प्रदेशचतुष्कस्य शुषिरीभावादेकस्य वा सममध्यप्रदेशस्य कथमप्यनागमात्, प्रदेशस्य विभागाभावात् । न च चतुरस्रं चतुर्धा विभक्तुमपि शक्यते,येन स्यात् त्र्यनचतुष्क,ततो व्यवहारेऽपि चाकृतिभेदात्परिगणनीयमेव त्र्यस्र चतुरस्र वा पृथक्तया। अक्षराण्यड्डा वस्तूनि पृथिव्यादिभूताना सस्थानानि चैतदुद्भवान्येव । स्थापयित्वा च पट्टिकाया सस्थानपञ्चक यथाक्रममन्वेष्य प्रयोज्यानि । तथा "फास"त्ति । तत्र स्पृश्यते योऽसौ स्पर्श । स च गुर्वादिभेदेनाष्टवा । यदाहु-"फासा गुरु-लहु-मिउ-खर-सीउण्ह-सिणिद्ध रुक्खट्ठ"त्ति। तत्र “गत् निगरणे" इति तौदादिकस्तस्मादौणादिक: "कृन ऋत उर्च" [७३४] इति किदु , गिरति-पतत्यघोऽनेनेति गुरु स्पर्ग अध पतनकारण वायुश्च सहचारि कारण, तेन रुद्धवायोर्नलिकादेर्जलादेरपतनेऽपि न नास्त्येव जले गुरुता, अन्यथा वायुरोधाभावे कथ युज्यते वा पातो जलादे ? कथ न पतत्यर्कतूलादि ? न च कथ तहि पतनतो निश्चितगुरुत्वमपि काष्ठादिक न निमज्जति जल इति वाच्यम्, जलस्य यत्तत्सद्भावो (स्वभावो) यन्तादृशमधो नयति, नैतावता तस्य गुरुत्व न। यतः किमु जले काष्ठादे पाषाणादेरल्पमानत्वप्रतिभाने तस्य मानमन्यनैव वास्तवमिति वक्तु शक्येत, किन्तु जलस्वभावेनैव तथा प्रतिभास । केचिदाहु - यद् गुरुत्वेनाकृष्यते पदार्थः क्षितितलमध्यविन्दुनेति, तच्चिन्त्य, । यद्यप्याकर्पणकारण तु गुरुत्वमेवेत्ति नैरभ्युपगम्यत एव, पर विप्रतिपत्तिरेतावत्येव-यद् गुरुत्वेन पतति,

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259