Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२४५.
इत्यादादिकस्तस्मात्"शीरीभूमूघपा" [२०१] इत्यादिनीणादिकः कित्तः प्रत्यय । तथा च शीत इति । स्पष्टश्चाय स्पर्शविशेषतया। न ह्यननुभूत केनाप्यस्ति शिशिरजडतोद्भवमशर्म,यो विप्रतिपद्येतैतस्मिन्, न वा विना जीवन जीवति कश्चिदसुभेद्योऽपलपेदेनम् । तथा "उण्ह"त्ति । उष्ण , ओपति-दहति शरीरादिकमित्युष्ण ,"उषू दाहे" इति भौवादिकस्तस्माच्च "वीह वाशुष्युपि" इत्यौणादिके किति णे उष्ण इति सिध्यति । दह्यते चोष्णेनेन्द्रियादिक, स्पष्ट चेदमिति न विप्रतिपत्ति.। तथा 'सिणिद्ध"त्ति। स्निग्ध , "ष्णिहीच स्नेहने" स्नेहयत्यास्वादयन्तमिति स्निग्ध ,"अकर्मकपिव भुजे"[५।११११] इति कर्तरि "ज्ञानेच्छाचार्थ" इत्यादेराकृतिगणत्वाच्च वर्तमाने क्तेः “मुहद्रुहस्नुहस्निहो वा" इति घे "अधश्चतुर्थात्" इति तस्य धादेशे स्निग्धो घृतादिगत स्पर्शविशेपः । तथा "रुक्ख'त्ति रूक्षः, तत्र "रूक्षण् पारुष्ये" इत्यदन्तश्चौरादिक परस्मैपदी । लिहादित्वादचि रूक्ष., रूक्षयति चैष स्पर्श आस्वादयन्तमनिष्टत्वात्, पापप्रकृतितया च मण्यते अत एव “गुरु खर रुक्खं" इतिवचनात् । एतेऽष्टावपि स्पर्शा. । ननु शीतोष्णयोर्भवतु स्पर्शत्व, गुरुलघुमृदुखरस्निग्धरूक्षाणा कथ स्पर्शत्व ? यतो न तावद् गुरुलघू स्पर्शमात्रवेद्यौ, तेपामुत्पाटनेन सञ्चालनेन वा बोधात्, स्पर्शाख्या तु तस्यैवार्हा, यः स्पर्शमात्रेण वेद्यते यथा शीतोष्णौ। तथा मृदुखरयोरपि न केवलस्पर्शमात्रवेद्यताऽस्ति, किंन्त्विहापोहगम्यावेव । तथा स्निग्धरूक्षावपि । तन्नते स्पर्शतयोदितु योग्या षडिति चेत् । सत्य, ब्रूत तावत्केनेमे वेद्यन्ते ? मनसा तु न केवलेन, सहोपयोगे तु किं न शब्दादिष्वपि तस्योपयोगः ? असाधारण्येन यथा तत्र श्रावणत्वादि, तथैवात्र किं न स्पार्शनत्वादि ?। किञ्च-गुरुभारादिना क्रमण थान्तिर्घर्षण दाहश्च नान्येन्द्रियाणा वाधाकर , किन्तु

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259