Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२४७
पापाणादी शीताद्युपलम्भात् । अग्निकणा जलकणाश्च तत्र प्रविष्टा इति चेदाः ? कि जलानलयोविरोधोऽपि विस्मृत ? न चाकाशादी। जलादिस्पृश्यपि शीतादेरस्ति कदापि लेशत उपलम्भ.। मूर्तेष्वेव स. इति चेदस्तु मूर्त्तगुण । नन्वग्निप्रभृतिस्पर्शाल्लभ्यते उष्णादिस्पर्शवत्त्व तदभावे च नोष्णो न वा शीत उपलभ्यते इति पृथ्व्यादीनामनुष्णाशीतस्पर्शवत्त्वमेव योग्य मिति चेत्सत्यम्, तीव्रतत्तत्स्पर्श तत्तत्कारणताऽस्ति, पर नैवान्यत्र नैव स्पर्शो न वासौ न शीत उष्णो वा,अस्ति च चन्दनादौ पार्थिवे सार्षपे च शीतोष्णौ स्पर्शावुपलभ्यमाने वायावपि च । न चोष्णगीतान्यतराभाववान् कोऽप्यर्थः स्पर्शनविपयतामागच्छति । यद्वाऽग्ने. पार्थिवाणूपादानत्वादुदकस्य च वायूपादानत्वात् किमिति तत्र 'यद्रव्य'मिति नियमेन न तत्तत्स्पर्शवत्ता, चन्द्रार्ककान्तोपलादुदकाग्न्योरुद्भवाद्वा कथ पार्थिवेऽनुष्णाशीत एव स्पर्श इति वक्तु युक्तम् । तथा "ठाण"त्ति । स्थीयतेऽस्मिन्निति स्थानमवगाहना "करणाधारयो." इत्यन. । तच्चैकस्य प्रदेशस्य परमाणुसञ्जितस्यैकस्मिन्नाकाशप्रदेशे द्वयणुकत्र्यणुकयावदनन्तानन्ताणुकस्कन्धस्यापि । कथमेतदिति चेत् । पारदसुवर्णन्यायेन । पूर्वमेव प्रतिपादितमेतन्मा विस्माीः । आर्ष च
"एगेण वि से पुण्णे दोहि वि पुण्णे सय पि माएज्जा । कोडिसएण वि पुण्णे कोडिसहस्स पि माएज्जा ॥१॥ इत्यादि । अन्यथा प्रत्यक्षदृष्टानामनन्तानन्ताणुकस्कन्धानामप्यवगाहनानुपपत्ति । तथा द्वयणुकादीनामाकाशप्रदेशद्वयावगाहनमपि स्वानधिकप्रदेशमर्यादया असडख्येयप्रदेशावसानमेव चावगाहनम्, तावत एव लोकत्वात् । अलोके च न गति पुद्गलाना, न च स्थित्यवगाहने, सर्वं चैत'ल्लोकाकाशेऽवगाह एकप्रदेशादिषु भाज्यः पुद्गलाना'मिति तत्त्वार्थसूत्रयुगलपर्यालोचने स्पष्टीभविष्यति । अत एव च "ओगाह-:

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259