Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२४३
मुत्पतनाभावो वा पतनमिति वक्तु शक्येत । यथारुच्याख्याने तु किमिति गीतोष्णे सुखदु खे सयोगवियोगौ इत्यादि स्वीकरणीयौ . एकाभावत्वमेव द्वितीयस्यवोच्यते किमुन । असमवायिकारणत्वादि त्वितरत्रापि तुल्यमेव । किञ्च-यथा गुरुरय इति स्वातन्त्र्येण प्रतीयते पदार्थो गुरुतया, तथैव लघुरयमित्यपि प्रतीयत एव स्वातन्त्र्येण । न च भ्रान्तेयमिति वक्तु शक्यम्, प्रतीतिमात्रस्य भ्रान्तत्वप्रसङ्गात् । न च वाधकमत्र । यदि च लघोरेव 'नाय गुरु'रिति प्रतीत्या वाधमुत्प्रेक्ष्य स्वोत्प्रेक्षया कल्प्यते प्रतीते भ्रान्तत्वम्, सुखिन्यपि नाय दुखीति, शीते च नायमुप्ण इति, चियुक्ते च नायं सयुक्त इति प्रतीत्या किं न सुखादीनामपि दु खाद्यभाव-. ताऽनुपज्येत? । किञ्च-यदि गुरुत्वाभावस्यैवाभिप्रेत स्याल्लघुत्वम्, स्यादेवाकाशात्मादेरपि गुरुत्वाभावान्वितत्वाल्लघुत्वेन व्यवहार. । यदि च स्वतन्त्रमेव स्वीक्रियेत लघुत्व, तदा तदभावान्नैवाकाशादेर्गुरुतया लघुतया व्यवहारापत्तिः । न च गुणादीनामपि गुणे गुणाभावाद् गुरुत्वाभावादिना लघुत्वापत्ति । किञ्च-यदि गुरुत्वाभावो लघुत्व, तदेव चोत्पतनकारणमित्यभ्युपगम्यते, न स्यात्सूर्याचन्द्रमसो. प्रभाया आगमनमत्र । स्याच्चाग्निमात्रस्योलमेवार्कतूलादीनामिव गमनम् । तथा चानायत्यैवायुष्मदावासाना सदान्धतमसवत्तया रसातलताऽयत्नसिद्धव । कथ च विद्युदादे. पातोऽनुभवसिद्धोऽपि सङ्गमनीयो गुरुत्वाभावमात्रेणोत्पतनवादिभिः । अस्माकं तथानियमाभावात्पदार्थाना विचित्रस्वभावत्वाज्ज्वालादेरूख़ज्वलन विद्युत्प्रकाशसूर्येन्दुप्रभाणा चाविरुद्ध समागम । न च वाच्यं कथमग्निवदूर्ध्वगमनस्वभावो जीवः कर्मविमुक्तो गच्छत्यूलमालोकान्तादस्पृशद्गत्या समयेनेति, तथा यदूर्ध्वं ज्वलति ज्वलन इति चोच्यमान घटामञ्चेदिति । तत्र ह्यग्निशिखाया'

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259