Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीर्यावगिका
२३१
गम्या परिणामजाश्चेति परिणामव्याख्यानावसरे व्याख्याता इति न काप्यसङ्गतिः। तथा च कपिशादिवद्यदि संयोगजा वर्णाः परिगणनीयास्तहि न केवलास्ते सप्त, किन्त्वेकत्रिंशदेव व्याख्येया । अन्यच्च-कपिगस्य सयोगस्पत्वे यथा पृथक् ख्यान तथाऽन्येषामपि किमिति धूसरादिवर्णानां नाख्यान ? चित्रतयाभिमाने च तेषा किं न कपिगस्यापि, अवयवाना भिन्नभिन्नवर्णताकृतत्वादिति चेत्, न, तदपि अवयवाना भिन्नवर्णत्वे केवलमौपचारिकमेवावयविनम्तद्वर्णत्वम् । न हि प्रत्यवयव कपिगत्वादि विद्यते । यथा हि द्वित्वादि अपेक्षावुद्धिजनित, तथा कपिगत्वादि । ततो न भेदाख्यान पार्थक्येन भवति युक्तियुक्तम् । चित्रत्व च सामान्यरूपेण परिगण्यमानमपि न मूलभेदतामर्हति सयोगजत्वात् । ननु परिणामव्याख्याने कि तर्हि मूलभेदा अपि परिगणिता? यतो न ते सयोगजा इति चेत् । सत्य, परमन्यवर्णपुद्गलानामन्यवर्णत्वेन परिणतिसद्भावात्तेषा मूलभेदाना , पारिणामिकभनवृन्दे आख्यानम् । यद्वा-तीव्रमन्दभावस्तत्तद्वर्णसमायोगेऽपि भवन् विलोक्यत एवेति तेपा पारिणामिकतयाख्यानम् । वर्णसमायोगेन भवन्त्येव तथापरिणामा प्रत्येकपरिगणितवर्णरूपा इति तेपा तथाख्यानम्। ननु च कथ तहि मूलभेदा कथ वा कापोतादय उत्तरभेदा ? इति चेत्, न लक्ष्यन्तेऽत्र सयुक्ता वर्णा कथञ्चिदपि, कापोतादिपु तु ये ये संयुज्यन्ते ते ते ज्ञायन्तेऽवयवविभागे सूक्ष्मनिभालने वा तत्तच्छाययेति तेषा पृथग्वर्णत्वं वर्णितं शास्त्रकृद्धि कृष्णादीनाम्, न तु कपिशादीनामिति ज्ञेयं सूक्ष्मधिया सूक्ष्मधीभिर्यथागम विभाव्य । यद्वा-पञ्चापि वर्णा सन्त्येव प्रतिस्कन्ध, पर- यदोपष्टम्भकं यथाऽवाप्नोति तदा तथा परिणमतीति । दृश्यते कृष्णादे संयोगजत्वमपि कस्यचित्, पर नैतावता मूलभेदविलोपापत्ति । अयमेव न्यायो वायुसयोगजन्यत्वेऽपि

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259