Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 236
________________ द्वितीयविशिका वयोवपरिणामतामनुसन्धाय द्विविधतया वा पर्यायलोकताख्यानाय वाऽऽहु - वण्ण-रस-गध-संठाण-फासठाणगइवण्णभेए अ । परिणामे अवविहे पज्जवलोग वियाणाहि ॥१०॥ व्याख्या-अत्रावधेय तावदिदम्-जीवस्य द्र-यत्वेन भावत्वेन च तद्गुणाना तत्पर्यायाणा चाऽख्यान नोपेक्षणीयतामर्हति, तथापि भावलोकस्य जीवगुणप्राधान्येन भवलोकस्य च जीवपर्यायप्राधान्येन व्याख्यानात् पर्ययाणा च परिणामत्वात् नात्रोल्लेख जीवगुणपर्यायाणा विगदीकृतवन्त । यद्यपि च धर्मादेरजीवस्यापि सतो न प्राक् न चात्रापि उल्लेखो वैशयेन विहितस्तथापि नानाश्वासो विरचनीयो, धर्मादिवेशद्यम्य विशेषत आगमजेयत्वात्। सामान्यतस्तु “जीवमजीवे रूबमरूवि" इत्यत्र “दव्वगुण" इत्यत्र च विवृतम्वत्पत्वात्, पुद्गलास्तिकायस्य त्वजीवत्वादिना समानस्यापि सुप्रज्ञाप्यत्वाद्विशेषेण व्यास्या विधीयत इति । तत्र वर्ण्यते-- निरूप्यते ज्ञायते वा स्पण्टन याऽर्थोऽनेनेति वर्ण शुक्लादिभेदेन पञ्चधा । न च वाच्य कथ पञ्चधेति, कपिनादिभावादिति । अनेके हि सयोगजा वर्णा यानुक्तवन्त परिणामव्याख्याने । अत्र तु मूलभेदव्याख्यानमेव । ननु परिणामव्याख्यानेऽपि व्याख्याता एकत्रिंशदेव भङ्गा वर्णानां मूलभदै सह, विधानानि च वहन्येव वर्णानां न च तानि तत्रात्र वा व्याख्यातानि, वर्णतारतम्यतादर्शनाच्चकजातीयेऽपि वर्णे नैतत् स्वबुद्धयुद्गीर्णमिति चेत् । सत्य, विभागो हि सामान्यविशेषरूपेणाभिप्रेयते। तत्र वर्णत्वेन विभागाभावः केवलेन विभागविस्तारव्याख्यान चैकगुणादानन्तगुण तारतम्यभावान्नव शक्य निरूपयितुम्, न च सुज्ञेयमपि च्छद्मस्थैरिति सामान्यविशेषरूपेण पञ्चप्रकारत्वरूपेण मूलभेदभूतेन व्याख्यानं, सयोगजाश्च प्रत्यक्ष

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259