Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका
arvanvarwwwmomsArAv-uve.
यथागम क्षुण्णत्वाच्च नाख्याताः । यहा- भवानुभावव्यात्यानेन जीवपरिणामा एव व्याख्याता इति भावपरिणाम इत्यत्र पुद्गल. परिणाममुखेन परिणाम प्रतिपादितो जीवस्य । तदेव प्रजाप्य पयोंयलोकरूपमण्टम लोकभेद निगमयन्त आह् -'त जाणे"त्यादि। नत्र जानीहीति शिष्याभिमुखीकरणपूर्वकोदितोपयुक्ततासूचनाय अवध्यस्व, अनेनावबोधयोग्याय अवबोधयोग्यपदार्थप्राणाया साफल्यं दर्शयन्तो वालादिव्यवस्थयोपदेगवितरण प्रत्यपादि, अन्यथा हि विराधनाप्रसङ्गस्तज्जनितभवाटवीपरिभ्रमणप्रसङ्गच दुर्वार। यदाहु-"यद् भाषित मुनीन्द्र पाप खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥१॥" [पोडगके] इत्यादि। किमित्याह-चतुर्विधमिति । चतस्रो विधा -प्रकारा , परस्परविभिन्नधर्मोपेताः सन्तोऽपि सामान्यसमानधर्मवत्त्व हि प्रकारत्वम् । तच्चात्र गुणपर्यायानुभावपरिणामाना पर्यायत्वाव्यतिरेकायुक्तत्वम्। क्षेत्रपर्याय इत्यत्र पर्यायशब्दस्य विशिष्टावस्थावाचकता, पर्याय-: लोक इत्यत्र च पर्यायगव्दम्य धर्मवाचकताऽवसेया । तेन नोभयोरैक्यम् । यद्वा-गुणव्यतिरिक्तधर्मवाचकतया क्षेत्रपर्याय इत्यत्र पर्यायगव्दोऽन्यत्र तु यावद्धर्मवाचकतयेति यथार्थता विभागस्य । भवानुभावभावपरिणामयोस्तु प्रथमस्य जीवाजीवोभयजनितयाऽन्त्यस्य गुणविकाररूपतया भिन्नत्वाद्धर्मत्वाच्च पर्यायत्वात् पर्यायलोकता न कथञ्चनापि युक्त्यतिरेकिणीति यथार्थव पर्यायलोकस्य चतुष्प्रकारता, अवान्तरभेदस्यैव प्रकारार्थत्वात्। क चतुर्विधतया विद्याद् ? इत्याहु -'एत मिति । एत पूर्वमानन्तर्येण व्याख्यातत्वात् निर्दिष्टमेतदा, भिन्नवाक्याभावादन्वादेशत्व न, तेन नैनदिति । अनेन पूर्वोक्तपदयोरखण्डवाक्यस्य वा कर्तृकृतो न भेदो न चाभेद इति सूचितम् । भेदेऽभेदे वा समीपतरत्ववाचिनतदा निर्देशायोगात्,

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259