Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविशिका
२२७
प्रतिविम्बग्राहिणि काचतले स्पष्ट मुखादिप्रतिकृति स्यात् । पदार्थजन्यत्वाच्च च्छायाया , न तदाधीनोत्पादादौ युक्त्यतिरिवत, यावज्जपाकुसुमसन्निधान स्फटिके रक्तता, तद्विनाशे व्यपगते वा नेति । नैतावता वर्णस्य भ्रान्तता। तत्र रक्तस्यारोपिता चेद्, अन्यत्र नारोपस्तत्रैवारोप इति वैचित्र्येऽन्वेपणीय कारण विहाय कदाग्रहग्रहिलताम् । भवति चोद्योतेऽप्यन्यान्यवस्तुप्रकरस्य च्छाया, कथ चाभावरूपत्वे तस्या उद्योतस्य युज्येत ? कथ चाभावत्वे तस्या. शीत स्पर्णः, आरोपित उष्णत्वाभावान्नासौ वास्तव इति चेत्, किमुष्णत्वाभावेन श्लेष्मादि कम्पादि वा क्रियते । तथा च शीतस्पर्श एव किमिति स्पर्शतयाङ्गीक्रियते, उष्णत्वाभावरूपेणैव तस्य एव सति स्वीकारौचित्यात् । न च वाच्य विनाशे तस्या अवयवा नेक्ष्यन्ते, यदि च स्यात् सा भावरूपा, स्युरेवावयवास्तस्या , घटादे कपालादिवदिति। मृगमद-धनसार-कर्पूरादे स्पर्शरूपादिमत. समूलमुच्छेदेऽपि न तस्योपलभ्यन्तेऽवयवा. । न चैतावता न मृगमदादयो भावरूपा , उद्योतस्य वा किं दृष्टा अवयवा ? कथ च तस्य स्वीक्रियते भावतेति विचिन्त्यमेव चेतसि। स्पर्शवत्त्वे स्खलनाविधानविधुरता तस्या सम्भवेदित्यप्युद्योतेन वाय्वादिना च स्वीकृतेन भावत्वेन समानयोगक्षेममित्यनोद्यमेव । पदार्थस्वभाववैचित्र्यादेव च दूरस्थस्य घटपटादेश्छायाभावसम्भव । न च दूरस्थेऽपि द्वादशात्मनि निशीथिनीगे वा सूर्यकान्ताच्चन्द्रकान्ताद्वोपलात् प्रादुर्भवति कृशानुरापो वेति तत्रापि स्वीकर्तुमुचिता भ्रान्तिमत्ता । अन्यच्चएतदेवादर्शादेर्महार्घताकारणमनुभूयते यद् दूरदूरतरदूरतमादिवस्तुप्रतिविम्वन सामान्यकाचतलस्यापि सत्येव नैर्मल्यविशेषे दूरादिस्थितवस्तुप्रतिबिम्बम्, न चैतद्युक्तमभावत्वे प्रतिविम्बच्छायाया । एव च वाच्या स्वयमेव मनुष्यत्वादेरपि परिणामा उपयुज्य

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259