Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीयविगिका
२२९
vAruuuuN
कथञ्चिद्भेदाभेद एव तद्योगात्। एतस्य चतुर्विधस्यापि का आल्या? इत्याहु -"पज्जवलोग" इति । तत्र परि -सर्वतोभावेन अवन-पदार्थपरिपालनं पर्यायापेक्षयोत्पादव्ययसद्भावेन द्रव्यस्य रक्षणात् । यत उच्यते-"उग्पायटिइभंगाइ हदि दवियलक्खण एय" इति । यद्वाअतीतादिपर्यायप्रमाणत्वाद् द्रव्यस्य पर्यवता पर्यवाणाम् । यदाहु - "एगदविअम्मि जे अत्थपज्जवा वयणपज्जवा वा वि । तीयाणागयभूया तावइय त हवइ दव्व ॥१॥” इति । अत्राद्ययोरर्थपर्यायत्वमन्त्ययोर्व्यञ्जनपर्यायत्व चेति विवेक स्वयमूहः। पर्ययन वा परावर्तन वा मर्यादया-पर्यया पर्याया वा, द्रव्यस्यावस्थितत्वात् पर्ययन पर्यायाणामेव "उप्पज्जति वयति अ भावा नियमेण पज्जवनयस्स" इतिवचनात् । त एव समुदिता लोकमानत्वाल्लोक पर्यवलोक पर्ययलोक पर्यायलोको वा, पर्यवाणामानन्त्यात् । "जीवा पोग्गलसमया दव्वपएसा य पज्जवा चेव । थोवा णता णता विसेस अहिया दुवे णता ॥१॥ इति वचनात् । कथमेव निर्देश ? इत्याहु -"समासेण"ति । सम्यग्विरोधाभावरूपतयासन-स्थापन, सम्यगविरोधेन वासन-वस्तूना पर्यायलक्षणाना निक्षेपण समास । समसन वा परस्परबाधाभावेनकीकरणम् । न हि गुडदध्नोरिवैकीकरणे “स्वरूपपरावृत्ति पर्यायाणामुक्त्येति समास , तेन । हेतो, चतुर्विधपर्यायलोकज्ञानापेक्षया करणे वा तृतीया। नैव व्यपदेशमन्तरेण भवति पर्यवलोकज्ञानमिति तृतीयया करणाख्यायिन्या व्यपदेश ॥९॥
तदेवं पर्यवलोकव्याख्यानाद्यद्यपि व्याख्यातो व्याचिख्यासितोऽष्टविधोऽपि लोको “णाम ठवणा" इत्यादिना प्रक्रान्त., पर पर्यवलोकस्य विशेषतस्तदवान्तरभेदयोर्द्रव्यगुणभावपरिणामयोश्च दुर्जेयत्वादवगमसीकर्याय विशेषव्याख्यानाय क्षेत्रपर्यायभवानुभा

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259