Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri
View full book text
________________
द्वितीर्यावशिका
पानीयस्य भिन्नकायत्वेऽवगन्तव्य , यतस्तत्रापि विद्यत एव वायुकायतया परिणतानां पुद्गलाना तथास्वभावतापरिणतो वा वायुरुभयमीलनेनोदकतया नोभयज्ञाज्ञेयोऽवयवत्वे तु तथैवोपलब्ध रूपस्पर्शवत उपलम्भे सर्वथा नैकेन्द्रियव्यापारः, यथा न वाऽवयवज्ञान विनाऽवयविज्ञान, स्पष्टाश्चेदवयवा न च वायुद्वयस्य स्पष्टताऽप्सु, किन्तु तदेकरूपतया परिणत वायुद्वन्द्व तथा स्पष्टमेव पार्थक्य, अन्यथा कापोतादीनामवयवोल्लेखो भवेत् । न च वाच्यम्, तथापार्थक्येऽपि जीवनिकायत्वेन कथ पार्थक्यमिति । यथा हि नराणा शरीर कृम्यादिभि स्वगरीरतया परिणाम्यते, परिणमति च तदेव पुनर्धान्यरूपापत्त्या मानुपगरीररूपतयैव विध्वस्य वायुरपगच्छन्ति उत्पद्यन्ते चाप्कायिका अप्योति विवेचनीयं विवेकिना वर्णितपरिणामवत्प्रकृतिवच्च । रसादिप्वपि ज्ञेयम् । रस्यन्त-आस्वाद्यन्त इति रसास्तिक्तादय पञ्चवा । ननु च कथ पञ्चैव रसा, पण्ठस्य लवणस्यापि भावात्, अम्ललवणयोश्च स्पष्दैव वेविद्यते भिदेति चेत् । सत्य विद्यते । पठ्यते चात एव स्थानान्तरे-"तित्ते वा कडुए वा कसाए वा अविले वा महुरे वा लवणे वा" इति । अत्र तु "रसओ परिणया जे उ पचहा ते उ कित्तिया । तित्त-कडुयकसाया अबिला महुरा तहा ॥१॥” इत्यादाविव तस्य सयोगजत्वाभिप्रायेण न पृथक् परिगणना, दृश्यते चौदनादौ मात्रया क्षिप्त लवण केवलमाधुर्यपोषकम् । न हि तत्रानुभूयते क्षारतालेशोऽपि । न चाल्पत्वादभिभूत स रस इति वाच्यम्, तथा सति माधुर्यविशेषोपलम्भायोगात् । सयोगत्वेऽपि कपिशादिवत् कापोतादिवद्वा। अवयवोल्लेखाभावस्तु तथापरिणते , तथात्वेऽपि -पृथगगणनं तु मधुरादिपोषकत्वाभावप्रसङ्गात् । अम्लादयोऽपि क्षारानुगृहीता एव स्वस्वभावं याथातथ्येन दर्शयन्ति । तथा च परिणा

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259