Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 229
________________ द्वितीयविशिका २२३ कतेजोऽभावरूप तर्हि न तदनुसन्धानाभावे प्रतीयेत । न ह्यत्यन्ताभावेऽप्रतियोग्युल्लेखो बोध = फुरति अननुसन्धाने च प्रतियोगिनो घटादिवत् सत्त्वेन प्रतीयमानतायामन्वकारग्य कथ भावतापत्तिस्तेन शक्याऽनलपितु ? । किञ्च - आलोकाभावो यद्यन्धकार किं तर्हि यावदालोकाभावो यत्किञ्चिदालोकाभाव आलोकसामान्याभावो वा ? | आद्ये, दीपाद्यन्यतमालोके सत्यपि नेपालोकाभावात्तमस्त्वेन प्रतीतिपसङ्गात् । न चाभावस्यास्ति पराभवावस्था, भावत्वापत्ते । द्वितीयस्मिंस्तु सत्यपि प्रदीप्रदीपादिना भास्करेण वोद्योतितेऽपि भवने भुवने वाऽस्त्येव अन्यतेजस्विना तेजोभाव, तेन तमोवत्ताप्रतीतिप्रसङ्गस्य दुर्वारतैव । यदि च कक्षीक्रियते आलोकसामान्याभावस्य तमस्ताप्रतीतिरिति । तत्र विचारणीय तावदिद - यद्यथा घटादीनामत्यन्ताभावे यत्किञ्चिदघटप्रतियोनिकाभावोऽत्र तु न तथेति किं कारण? कथ च मन्दतेजोयुतः कोऽपि प्रदेश सम्भवेत् तत्रैव भावाभावयो साङ्कर्य-प्रसङ्गात्, मन्दस्य तेजस आगमन चेत् नालोकसामान्याभाव इति किं तत्रान्वकार प्रतीयते ? कथ वान्धकारवत्ताप्रतीति ? तथा च द्वयोर्भावत्वेन सत्त्वयोरेवैव सम्भव । न ह्यगेन घटाभावो घटसत्ता वा सम्भवेत् कक्षीकृता वा सम्पूर्णा लोकस्वीकारे च कथमन्धकारो मन्दतेजस्कता वा प्रतीयेत, व्यपदिश्यते चामन्दैरपि मन्दं तेजो मन्द तमश्च । न चाभावत्वे युक्तमिदम् । यथा तीव्रमुत्कट प्रचुरं वा तेज इति प्रतीति प्रतीतिमत्ता, तथैव तमस्यपीति कथ भवेदभवताऽस्य ? । न हि तारतम्यमस्त्यभावे । यदि चालोभाव एव तमस्तदान्धाना स्याद्भान, चक्षुरभावश्चेत् चक्षुष्मतोऽप्यक्षिनिमीलने न तद्भानम् सन्निकर्षो नेति चेत्, स्पष्ट सन्निकर्प सम्वन्ध, स च तमसो द्रव्यत्वे सत्येव घटते । अन्यच्च - अधिकरण

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259