________________
द्वितीयविशिका
२२३
कतेजोऽभावरूप तर्हि न तदनुसन्धानाभावे प्रतीयेत । न ह्यत्यन्ताभावेऽप्रतियोग्युल्लेखो बोध = फुरति अननुसन्धाने च प्रतियोगिनो घटादिवत् सत्त्वेन प्रतीयमानतायामन्वकारग्य कथ भावतापत्तिस्तेन शक्याऽनलपितु ? । किञ्च - आलोकाभावो यद्यन्धकार किं तर्हि यावदालोकाभावो यत्किञ्चिदालोकाभाव आलोकसामान्याभावो वा ? | आद्ये, दीपाद्यन्यतमालोके सत्यपि नेपालोकाभावात्तमस्त्वेन प्रतीतिपसङ्गात् । न चाभावस्यास्ति पराभवावस्था, भावत्वापत्ते । द्वितीयस्मिंस्तु सत्यपि प्रदीप्रदीपादिना भास्करेण वोद्योतितेऽपि भवने भुवने वाऽस्त्येव अन्यतेजस्विना तेजोभाव, तेन तमोवत्ताप्रतीतिप्रसङ्गस्य दुर्वारतैव । यदि च कक्षीक्रियते आलोकसामान्याभावस्य तमस्ताप्रतीतिरिति । तत्र विचारणीय तावदिद - यद्यथा घटादीनामत्यन्ताभावे यत्किञ्चिदघटप्रतियोनिकाभावोऽत्र तु न तथेति किं कारण? कथ च मन्दतेजोयुतः कोऽपि प्रदेश सम्भवेत् तत्रैव भावाभावयो साङ्कर्य-प्रसङ्गात्, मन्दस्य तेजस आगमन चेत् नालोकसामान्याभाव इति किं तत्रान्वकार प्रतीयते ? कथ वान्धकारवत्ताप्रतीति ? तथा च द्वयोर्भावत्वेन सत्त्वयोरेवैव सम्भव । न ह्यगेन घटाभावो घटसत्ता वा सम्भवेत् कक्षीकृता वा सम्पूर्णा लोकस्वीकारे च कथमन्धकारो मन्दतेजस्कता वा प्रतीयेत, व्यपदिश्यते चामन्दैरपि मन्दं तेजो मन्द तमश्च । न चाभावत्वे युक्तमिदम् । यथा तीव्रमुत्कट प्रचुरं वा तेज इति प्रतीति प्रतीतिमत्ता, तथैव तमस्यपीति कथ भवेदभवताऽस्य ? । न हि तारतम्यमस्त्यभावे । यदि चालोभाव एव तमस्तदान्धाना स्याद्भान, चक्षुरभावश्चेत् चक्षुष्मतोऽप्यक्षिनिमीलने न तद्भानम् सन्निकर्षो नेति चेत्, स्पष्ट सन्निकर्प सम्वन्ध, स च तमसो द्रव्यत्वे सत्येव घटते । अन्यच्च - अधिकरण