________________
द्वितीयविशिका
२२२
वैचित्र्यमेव शरणम् । यत सत्यपि समाने पार्थिवत्त्वे वज्र न लोहलेख्य, काष्ठादीनि च तथेति नैव पर्यनुयोज्य तत् । दृश्यते च कोशिकादयो रात्री निरीक्षमाणा आलोकसहकारितामन्तरेणाञ्जनसस्कृतचक्षुष्का मनुजा अपि चेति । तत्त्वत तमोऽतिरिक्तद्रव्यचाक्षुष प्रति तमस प्रतिवन्धकत्वमेव न्याय्यम्, मन्दतेजसि व्युप्टे यथा यथान्धकारनिवृत्तिस्तथा तथा दृष्टिप्रसरोऽध्यक्षसिद्ध सङ्गच्छते । न च यावद्दृष्टिपथेऽभूदावश्यकतेजोऽभावस्तत्रस्थैस्तत्रावलोकनात्तदा । न चालोके उद्भूतरूपवत्त्वेऽप्यस्त्युद्भूतम्पर्गवत्ता, येनोद्भूतरूपमुद्भूतस्पर्शव्याप्यमिति नियमः स्यात् प्रामाणिक । तथा चोद्भूतस्पर्शवत्त्वेन धूमेऽपि स्पर्गोऽस्त्युद्भूत इत्यप्यप्रामाणिकमेव, आलोकतीव्रतायामपि वाप्पोद्भवस्यानुभवसिद्धत्वात् साम्प्रदायिकञ्चाभ्युपगम्यत एव तमसि समीरणाभिव्यज्यमान शीत स्पर्श, यतोऽनुभूयत एवासितपक्षीयवायुशीतताविशेष । न च वायवीयोऽसो, सदा तथानुभवप्रसङ्गात् । अत एव च शीतवहुलप्रदेशवदन्धकारवकुलप्रदेशें शब्दपटुतोपलब्धिश्च तस्य पट्वी साक्षादनुभूयते । किञ्च - तमो नीलमिति प्रतीतेरपि तमसो द्रव्यत्वस्वीकार आवश्यक. । वाधितेयमिति चेत् । केन ? न प्रत्यक्षादिना, तस्य प्रत्यक्षत्वानङ्गीकारात् अङ्गीकारे च सत्त्वेन प्रतीतेरनन्यवृत्तित्वाच्च स्पष्टैव द्रव्यता । अनुमानादिकं तु न तद्वाधकम् । अभावे च तमसो नीलत्वेऽन्तरीक्षीयो निगाथा दृश्यमान. कापोतवर्ण आकस्मिकतामेवापद्येत । कुमुदिनीवान्धवादेस्तु श्वेतप्रभाविधायित्वात् दिवा तु सर्वथैव तत्रत्यतमोऽभिभवाद्भानवीयकरनिकरेण न तथोपलम्भ. । एव च न तस्य पृथ्वीताऽपि तस्या अनुष्णशीतस्पर्शवत्त्वात् । नीलरूपे च 'न पृथिवीत्वेन हेतुता । अस्तु वा विशिष्टनीलरूप प्रति तत्त्वेन हेतुता । ननु च यदि तम आवश्य
1