________________
द्वितीयविशिका
२२४
भानाभावे नात्यन्ताभावभानम्, तमसो भान तु तदधिकरणभानाभावेऽपि आवालगोपालाङ्गनं प्रसिद्धमेव, न गृह्यतेऽपवरकाकारोन्धकारग्रहणेऽपि । न च वाच्य न तहि ज्ञाता तमस स्यादियतेति । अभीष्टापत्तेः। न हि पयोमुक्पटलज्ञानेऽपि तत्परभागवति नभोमण्डल गृह्यते केनापि । न च प्रौढालोकाद् वहिर्भागादपवरकान्त प्रवेगे पूर्वमन्धकारभान पश्चाच्चालोकवत्तया भानमपवरकस्याध्यक्षसिद्धम्, न चैतत्तमसो द्रव्यत्वे युज्यते इति वाच्यम् । यथा ह्यालोकाभिभूतदृष्टेनरस्यालोक एव स्पष्टवर्णस्य वस्त्रस्य स्पष्टत्वेनाभानेऽपि वस्त्रीयवर्णस्य वस्त्रस्यान्यवर्णत्वेन भान, श्वेतस्य वा कम्बुन कामलोपप्लुततया पीतिमत्तया भान च, नैतावता दुष्टदृण्ट्यवलोकना सत्यत्वे पदार्थस्वरूप वर्णव्यवस्था वाऽन्यथाऽङ्गीकर्तु युज्यते समीक्षावताम्, तथाऽत्रापि समीक्षणीयम् । सर्वं हि ज्ञान धर्मिण्यभ्रान्तमिति नियमेनात्र वर्णविपर्यासेऽपि धर्मिभ्रान्तत्वानुपपत्ते. । महिकावद् दृष्टे प्रतिवन्धकत्वमप्यस्य द्रव्यत्वसाधकमेव । यथा च महिका वायुविशेपेण नश्यति द्राक्, तथा तमोऽपि तेजसा । किञ्च-यदि तम स्यादभावरूप, न स्यात्तस्याभिधानादौ नामावली। विद्यते च सा“ध्वान्त भूच्छायाऽन्धकारे"त्यादिना प्रतिपादिता । न चान्धत्व यथा दृष्टयुपघाते वर्तमानमपि व्यपदिश्यतेऽन्धादिनामान्तरैस्तथेदमपि भविप्यतीति वाच्यम् । तस्यादर्शनादिना स्पष्टमेव तथाद्योतनात् । न चात्र द्योत्यते तथा । न च तत्त्वतो दृष्टयभावमात्रस्यान्धत्वेनाभिधानम्, अन्यथा काष्ठादेरपि तथाभिधानापत्तिरुद्भवन्त्यनिवार्यप्रसरैव, किन्तु दृष्टिविकलदृष्टियोग्यप्राणिविशेष एव । असुरादिव्यपदेशोऽपि तथैव, न केवलाभावमुख्यत्वेन, किन्तु तद्विशिष्टावस्थावोधकत्वेन । न चात्राप्यालोकाभावलक्षणतमोयुक्तापवरकादिवोधकत्व तमाशब्देनाभिप्रेयमाण स्याधुक्ति