________________
द्वितीयविशिका
२२५
युक्तम्, तस्य तमोयुक्त-गहनतमो-गूढतम इत्यादिव्यपदेशेनाभिधानानहत्वापातात् । न चाभावत्वे तमसो युज्यते क्षपायास्तमस्विन्यादिरभिधानश्रेणि , तका च स्यादर्शिता तकनास्पद "तमी तमा विभावरी। रजनी वसतिः श्यामा वासतेयी तमस्विनी"। इत्यादिना दर्शिता चाभिधानसडग्रहकृद्भिराह वयालिस्तस्या' । यच्चोच्यतेतम शब्दो द्रव्यवाचको न भवति, आलोकशब्दान्यत्वे सति आलोकनिरपेक्षचक्षुाह्यवाचित्वादालोकाभावशब्दवदिति । तत्र कि नैव वक्तु शक्येत-यदालोकशब्दो द्रव्यवाचको न भवति, तम शब्दान्यत्वे सति तमोनिरपेक्षचक्षुर्णाह्यवाचित्वात्, घटाभावादिशब्दवदिति । प्रत्यक्षविरोध उभयत्रापि तुल्य । अन्यच्च-तम पद साभिधेय शुद्धार्थवत्पदत्वात्, घटादिपदवदितिनियमसाम्राज्यात् सत्प्रतिपक्षिमिदम् । दृष्टान्तोऽप्ययुक्त एव शुद्धपदत्वाभावात्, नियमविरुद्ध चानुमानमिदम् । किञ्च-एव तेज शब्दस्यालोकान्यत्वादिमत्त्वात् कथ द्रव्यवाचकता। तदर्थवाचकशब्दान्यत्वे इति विशेषणेऽपि घटपटादयोऽपि द्रव्यवाचका । न च मनुष्यत्वेन विशेषणीयो हेतुर्द्रव्यस्वरूपावधारणे, तस्यानर्थक्यात् । विशेषणेऽपि अञ्जनसंस्कृतचक्षुष्केनावलोक्यन्त एव घटादयो विनाऽऽलोकमिति नेष्टसिद्धिः । तत्त्वतस्तु नैवान्तर्याप्तेरन्तरेण यादृच्छिकानुमानमात्रेण पदार्थसिद्धिः। न चात्र कार्यकारणभावादिना कथञ्चनाप्यस्ति व्याप्तिसिद्धि.। . एवमारोपितनीलरूप आलोकाभावो ,यावत्यालोकसद्भावे न तमोव्यवहारस्तावदालोकाभाव आलोकससर्गाभावसमुदाय एवान्धकार इत्याद्यपि सतामपकर्णनीयमेव, पूर्वोक्तनीत्यैवालोकाभावत्वेनाघटमानत्वात् । एव छायापि नाभावरूपा तमोवत् समानसाधनेति च न पृथगनुक्रान्तेति । विशेषश्चानयो. परिणामप्रतिपादकगाथायामेव "सीया नाइपगासा" इत्यादिना