Book Title: Loka Vinshika
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Manikyasagar Suri

View full book text
Previous | Next

Page 227
________________ द्वितीयविशिका २२१ तापेक्षिकवादे । इत्थ च "लोहितो यस्तु वर्णेन मुखे पुच्छे तु पाण्डुर' । श्वेत खुरविषाणाभ्या स नीलो वृष उच्यते ॥१॥" इत्यवयवभेदेन वर्णनमपि सङ्गच्छते । निरपेक्षे च नैक रूपमिति प्रत्यय । अन्यथा नील जगदित्याद्यापत्ते.। सर्वं चैतदपरिणते समाधिक्यभावेन वर्णे विचारित, पर समाधिक्यादिना परिणती तु न केनाप्यपह नोतु शक्य, चित्र रूप वर्णान्तरत्वादेव तस्याध्यक्षेणावलोक्यतेऽपि तत्तथा। न च सयोगजो वर्णपरिणाम एवमेवोत्पद्यते, प्रतिबध्यप्रतिबन्धकभावकल्पनायामपि कापोतादिपरिणामस्याध्यक्ष सिद्धस्याकस्मिकत्वापत्ते । न च चित्रताऽप्येकविधा कृष्णत्वादीनामपि, तथा सत्येकविधत्वापत्ते । एकत्रिशद्भगा इत्यपि चोद्देशमात्र, सामान्येन गुणशब्दोल्लेखोऽप्यत एव । तथा च कापोतादीनामपि जघन्यगुणत्वादिसद्भावे न विरोध । छायाया द्रव्यत्वमपि साध्यमानान्धकारवत् प्रतिपत्तव्यम् । तमश्च द्रव्यम् । यदप्युच्यते-तेजोऽभावोऽयमिति । तत्र चिन्तनीयमेतत्, यदुततेजोऽपि द्रव्य न वा ? । आये, तद्ध्वस घटध्वसे कपालद्वन्द्वमिव अवश्यमङ्गीकार्य तदुत्तरावस्थपरिणत द्रव्यम्, न हि सर्वथोच्छिद्यते द्रव्य, प्रदीपविनाशे तत्तेजोविनाशेऽवश्यमेवेत्थ स्वीकारप्रसङ्गात्, ध्वसस्यात्यन्ताभावत्वावगाहेन भ्रान्तत्वाद् द्रव्यापलापिनाम् । न च वाच्य द्रव्यत्वे नाऽऽलोकनिरपेक्षचक्षुर्ग्राह्यता स्याद् । घटादेस्तथापतेस्तेजस एवातथात्वात् द्रव्यत्वेऽपि तस्याऽऽलोकेन स्वकीयेनाऽऽलोकवत्त्वेऽपि न कथञ्चनाप्यालोकस्यालोकवत्ता। औपाधिकत्वं गमनागमनादिकमपि दीपगमनागमनादिनाऽऽलोकस्यापि तथात्वात् । यद्वा-रक्तादिकाचेनालोकेऽपि रक्तत्वाद्युपलब्धेर्न स्यादालोकस्यापि परकीयगुणानुसरणादौपाधिकगुणवत्ताया द्रव्यता,अनन्तोत्पादविनाशकल्पना च न युक्तिप्रभृतिसिद्धेऽर्थे वाधिका। वस्तुतस्तु भावाना

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259