________________
द्वितीयविशिका
१७४
www
wwwwwww
wwwimmaa
स्वामिकत्वात् । न च वाच्य गहिलिङ्गादीनामपि केवलभावात् कथमेतदिति । लाभेऽपि तदवस्थाया न भावचारित्रेण विना केवलज्ञानलाभो। अनेन "सिज्झति चरणरहिया" इत्यपि व्याख्यात ज्ञेयम् । द्रव्यचारित्ररहिता इत्येव ह्यस्यार्थ । कषायमोहनीयादिक्षयस्य भावचारित्र विनानुपपत्तेर्युक्तमुच्यते यतिस्वामिकत्व. साधर्म्यम्, परमेतावान् विशेषो यदुत- मन पर्याय तु न द्रव्यचारित्रमन्तरापि। यद्वा-अवाप्तकेवलोऽवश्य सत्यायुषि प्रभूते द्रव्यप्रवज्ययापि प्रव्रजत्येव, अन्यथा देवादिकृतमहिम्नोऽयोगात् । स्पष्ट चैतद् भरतकेवलोदन्ते पुरन्दरस्य तथावचनेनेति, स्यादेव यतिस्वामिकत्वसाधर्म्यम् । यद्वा-यतिशब्देनाऽप्रमत्तता गृह्यत्ते, परमार्थतस्तस्या एव यतित्वात् । तथा च यथा मन पर्यायमप्रमत्तस्य प्रादुभवति, तथा केवलमप्यप्रमत्तस्यैव । न च मतिश्रुतावधयस्तथेति युक्तमप्रमत्तस्वामिकत्वेन साधर्म्यमिति । तथाऽवसानलाभात् । सर्वावरणविच्छेदलभ्य ह्येतत् । न च लब्धे एतस्मिन्नन्यत् प्राप्तव्य ज्ञानमवशिष्यते लभ्यते वा। सूर्योदयेऽन्यतेजस्व्युदयानपेक्षणमिव । तदिदमाहु-'अते केवलमुत्तम जइसा मित्तावसाणलाभाओ"त्ति । न चेद प्रकृतमत्र, क्षायिकत्वेनास्य क्षायिकभावे परिगणितत्वात्, केवल क्रमख्यापनार्थ साधर्म्य दर्शितम् । अत्र तु चतुर्णां क्षायोपशमिकाना मतिश्रुतादीना प्रस्ताव । व्युत्पत्तिस्तु ज्ञानपञ्चकस्य समयसागरादवसेया, विस्तारभयात् प्रायोऽन्वर्थसिद्धत्वाच्च नोक्ताऽत्र । तथा श्रुतमन पर्याययोभिन्नत्वेनानभ्युपगमो य. सोऽपि नयविचारापेक्षत्वादुपेक्षित । तथा अज्ञानत्रय मत्यज्ञानश्रुताज्ञान विभङ्गज्ञानरूप पूर्वोक्तमतिश्रुतावधिविपर्ययस्वरूपम् । न च वाच्य कथ नान्यज्ञान मन पर्यायादि मत्यादिवदिति, पर्यन्तज्ञानयुगलस्य मिथ्यात्वसद्भावे उत्पादायोगात्, सति च तस्मिन्मिथ्यात्वोदयस्यैवाभावाच्च। तत