________________
द्वितीयविगिका
१७३ ~~~~~mmmmmmmmmmmmmmmmmmm.... योत्पादेऽपि निखिलावरणविच्छेद. कारण, न वैकीयमतेन केवलिनां भगवता द्वयमप्येतद्भवति, परिमितवस्तुपरिच्छेदात्मकत्वादिन्द्रियवत् । केवल त्वनन्त, यतो द्वितीयमतेन सदपि नोपयोगीति प्रतिपादितमेव प्राक् । अथवा-यथा लब्धेऽपि तृतीयस्मिन्नवधिज्ञाने छद्मस्थ इति व्यपदिश्यते तद्वाँस्तथैव लब्धे मन पर्यायेऽपि व्यपदिश्यते इति च्छद्मस्थत्वसाधर्म्यम् । तथा विषयसाधात्, यथा हि रूपीण्येव द्रव्याण्यभिगच्छत्यवधिमॉस्तथा मन पर्यायज्ञान्यपि । नैतयोरेकतरमपि वेत्त्यरूपाणि । न च वाच्य मन पर्यायवॉ. श्चिन्तित सजिना पर्याप्तकेन वेत्ति, चिन्तित चारूपमपि स्यादिति कथं मन.पर्याय रूपिविषयमिति। चिन्तितान्न वेत्त्यद. साक्षात किन्तु चिन्तापरिणतान्मनोद्रव्यपुद्गलानेव, चिन्तितांस्तु बाह्यान् वेत्त्यनुमानेनंव "जाणइ बज्झेऽणुमाणाओ" इतिवचनात् । तथा चावधिमन पर्याययो समान एव विषय । तथा यथा ह्यवधिज्ञान क्षायोपामिकमुदीर्णक्षयादनुदीर्णस्य विपाकत उपशमेन, प्रदेशतो वेदनेन क्रमश. स्पष्टतादिरपि भवत्यस्यैवमेव, तथा मन पर्यायमपि क्षायोपशमिकभावान्तर्गतमपि । केवलोत्पत्तेरनुपपत्तिरन्यथा। ततश्च भावसाधर्म्यम् । तथा यथा ह्यवधिज्ञान केवलमात्ममात्रहेतुकोत्पत्तिकतया प्रत्यक्षमिति व्यपदिश्यते तथा मन पर्यायमपि, ततश्च प्रत्यक्षसाधम्यम् । स्पर्शनादि तु साव्यवहारिक प्रत्यक्ष, न पारमाथिकमिति तुक्तपूर्वमेव । तथा यथा शवधिज्ञान विकलप्रत्यक्ष देशप्रत्यक्षीकरणाद्वयपदिश्यते, तथा, मन पर्यायमपीति विकलतासाधर्म्यमिति । प्रतिपादितवन्तश्च जिनप्रवचनानुयोगभुवनाभोगप्रदीप्रदीपायमानातनुवुद्धिप्रारभाराः श्रीजिनभद्रगणिक्षमाश्रमणपादा -"माणसमेत्त-छउमत्य-विसय-भावादिसामन्ना" इति । अत्रादिशब्देन प्रत्यक्षता-विकलतादिग्रह । केवल तूतमत्वात्सर्वेषु यति