________________
द्वितीयविशिका
१७५
एवोच्यते "मतिश्रुतावधयो विपर्ययश्चे" तत्त्वार्थ०] ति। तथा "आधत्रयमज्ञानमपि” इत्यादि च । ननु च कथ भवत्याद्यत्रयस्याजानता ? | न तावत् कर्मोदयात्, तथा सति तस्यौदयिकप्रकरणपाठप्रसङ्गात् । सति चौदयिकन्वे ज्ञानाभावरूपमज्ञान भवेत्, न तु कुत्सित ज्ञानमज्ञानमित्यभिप्रेतरूपम् । सति च क्षायोपशमिकत्वेऽस्यावरणविलयप्रभवत्वे आवार्यस्याज्ञानस्याभावात् स्पष्टमेव जानत्वापत्ति , आवार्यस्याज्ञानत्वे च न किमपि प्रयोजनं क्षयोपगमेनाज्ञानाविर्भावकेनेति चेत्, नैवम्, अभिप्रायापरिज्ञानात्, मिथ्यात्वसहचरितत्वेन ज्ञानस्यैवाज्ञानताव्यपदेशादिति पूर्वमुक्तमेव । एवमेव मिथ्यादृशामज्ञानावरणीयक्षयोपशम इत्यत्राप्ययमेव पन्था.। न ह्यज्ञानावरणाभिधान कर्म पठ्यते कर्मप्रकृतिविवेचनेऽभियुक्त , किन्तु मिथ्यादृशां ज्ञानावरणक्षयोपशमेऽप्यज्ञानस्यैवाविर्भावादुपचर्यते यदज्ञानावरणक्षयोपगम इति । सदसदविशेषादिना चाज्ञानता मिथ्यादृग्ज्ञानानामित्यपि निर्णीतमेव पूर्वम् । ननु च विभङ्गस्यावधिविपर्ययत्वेन प्रत्यक्षरूपत्वात् कथ विपरीतबोधकत्वमज्ञानत्व च कथ तदभावे इति चेत्, सत्य, प्रत्यक्षपरोक्षताकृत एव हि भेदोऽत्र मतिश्रुतावध्योः, पर श्रद्धानाभावकृतमज्ञानत्व तु कथञ्चनापि विषमतावहमिति तस्याप्यज्ञानता। ननु प्रत्यक्ष कथमज्ञानतेति चेत, यथा घटादिप्रत्यक्षे मत्यादिमता तदज्ञानानि त्रीण्येवेति । तथा दर्शनेति । दर्शनत्रय चक्षुरचक्षुरवधिसञ्ज्ञ तत्र, "चक्षिड व्यक्ताया । वाचि” इति धातुस्तस्मादौणादिके "चक्षेः शिद्वा" [१००१] इत्युसि चक्षु.सिद्धिः । तथा च चक्षतेऽनेनेति, चष्टे वेति वा चक्षुः । प्रेक्षणीयं हि पदार्थमवेक्ष्यैव चक्षुषा चक्षते जनाः। ततश्च चक्षुरक्षीत्यर्थ । तथा दृश्यते-प्रेक्ष्यते-सामान्येनावबुध्यतेऽनेनेति- दर्शन, दृष्टिर्वा दर्शन मिति सामान्यमुख्यको बोध.। व्युत्पत्तिद्वयेऽपि