________________
द्वितीयविगिका
"करणाधारयो” इति अनट्, “क्लीवे" इति चानट। चक्षुषा चक्षुषो वा दर्शन चक्षुर्दर्शनमिति। यद्यप्यत्र दर्शनशब्दो बोधार्थ एव सामान्येन तथापि विगेषबोधस्यावग्रहादिरूपस्य चाक्षुषमतिज्ञानरूपत्वात् सामान्यमुख्यको गृह्यते वोध , अत उच्यते-"जं सामन्नग्गहणमत्थाण नेव कटु आगार । अविसे सिऊणमत्थे दसणमिइ वुच्चए समए ॥१॥" इति । पदार्थश्च सामान्य विशेषोभयात्मको यतस्ततो ज्ञानदर्शनयो क्रमेण विशेषाणा च सामान्यस्य च ग्रहणमिति। न च वाच्य कथमनाकार ग्रहण स्यादिति स्वस्वोत्तरापेक्षया सामान्यत्वाद् विशिष्टाकारराहित्यमनुसन्धेय, परमादिसामान्यग्रहस्यैव दर्शनत्वमिति । तथा च-"सामन्नमेत्तगहण नेच्छइओ समयमोग्गहो पढमो। तत्तो णतरमीहियव त्थुविसेसस्स जोऽवाओ ॥१॥" सो पुण इहावायावेक्खाओ वग्गहोत्ति उवचरिओ। एस विसेसाविक्ख सामन्न- गिण्हए जेण ॥२॥ तत्तोऽणतरमीहा तत्तोऽवाओ य तस्विसेसस्स। इय सामन्नविसेसावेक्खा जावतिमो भेओ ॥३॥ सव्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्न । सववहारत्य पुण सव्वत्थावग्गहो वाओ ॥४॥ तरतमजोगाभावे वाओ च्चिय धारणा तदतम्मि" । इत्यपि सङ्गच्छतें । सङ्गच्छते च "नाणमवायधिइओ" इत्यादि च । चक्षुरितरत्वेन विभागश्च दृष्टिव्यपदेशानुरोधेन, यद्वा-चक्षुपोऽबद्धस्पष्टग्रहणाहत्वेन स्पष्टतादर्शनपर , यत उच्यते-"पुट्ठ सुणेइ सद्द स्व पुण पासइ अपुट्ठ तु । गध रस च फास च बद्धपुट्ठ वियागरे ।॥१॥” इति । दृश्यते च त्रुट्यादे महत्त्वे सत्यपि न स्पार्शनविषयता, चाक्षुपविषयता तु तस्या अपि विद्यत इत्यनुभवेनापि चक्षुप पाटवमिति । यद्यपि मनोदर्शनमोघदर्शन चाप्यचक्षुर्दर्शनेन व्यपदेश्यम्, पाटवतरत्व च मनस , तथापि व्यवहारानुरो