________________
द्वितीयविशिका
१७७
धेनेत्थं विभागः। तथाऽचक्षुषा-चक्षुर्वय॑शेपेन्द्रियचतुष्केण "अचक्खु नपुमिच्छि सव्वे वि" इतिवचनादचक्षुर्दर्शनरहितस्य कस्याप्यभावान्मनोदर्शनमोघदर्शन चापि ग्राह्यम् । ननु चक्षुषा दर्शन मिति सर्वजनप्रसिद्धम्, पर कथमचक्षुषा दर्शन मिति चेत्, सत्यं, पश्यतिः सामान्यमुखबोधार्थक इह गृहीत । सामान्यमुख्यको बोधश्च शेषेन्द्रियादिरपि भवत्येव, अन्यथा विशेषवोधाभावाच्छद्मस्थानां सामान्यवोधपूर्वकत्वनियमाद्विशेपबोधस्येति । पठ्यते च-"आत्मवत्सर्वभूतेषु यः पश्यति स पश्यति"। तथा 'पृष्ठत उपसर्पन्तं सर्प वुद्वयव पश्यती'त्यादौ सामान्यवोधमात्रे पश्यति । कोशकारैरपि-"दर्शन दर्पणे धर्मोपलव्ध्योर्बुद्धिशास्त्रयो । स्वप्नलोचनयोश्चापि,” इति व्युत्पादित एव दर्शनशब्द उपलब्धौ ज्ञानसामान्यवाच्यायां बुद्धौ चेति। तथा च चक्षुरवधिकेवलव्यतिरेकज आत्मनि जायमान सामान्यवोधोऽचक्षुर्दर्शनशब्दाभिधेय इति निर्गलितोऽर्थः। केचित्तु "अचक्खु सेसिदिय"त्तिवचनस्य नियामकतामजीकृत्य शेषेन्द्रियज एव सामान्यवोधो दर्शनमित्याख्यान्ति । तथाऽवधिना-ऽधोऽधो विशेपपरिच्छेदकेन बोधविशेषेण दर्शनंसामान्यावगमोऽवधिदर्शन, सामान्यमात्रग्राहकत्वाच्च दर्शनाना न ज्ञानानामिव विपर्यय एषाम् । तथा च न मतिश्रुताज्ञानविभङ्गवदत्र दर्शनाना विपर्ययेण निर्देश । तथा च कथ नावधिदर्शनवद्विभङ्गदर्शन दर्शन नाभिमत ज्ञानवद्विपर्ययेणेति शङ्कोत्सादितैव, एवमेवादर्शनव्यपदेशशङ्कापि निरस्ता, सामान्ये तावद्विभागाभावात् । यद्वा-श्रद्धानाभावेन ज्ञान एव विपर्ययभावादिति। ननु च यथा अवधिज्ञानापेक्षयाऽवधिदर्शनमभिमत तथा श्रुतज्ञानमन पर्याय. ज्ञानापेक्षया कथ न दर्शनद्वयमभिमतमिति चेत्, सत्य, श्रुतज्ञान हि मनोमात्रविपय मतिपूर्वक चेति गतार्थ तद्दर्शनमचक्षुर्दर्शनेनेति ।