Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
294
ललितासहस्रनामस्तोत्रम् पुष्याश्लेषा तथादित्या वीथी चैरावती स्मृता । एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ॥ तथा द्वे चापि फल्गुन्यौ मघा चैवार्षती मता। हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ॥ ज्येष्ठा विशाखानुराधा वीथी जारद्वी मता । एतास्तु वीथयस्तिस्रो मध्यमोमार्ग उच्यते ॥ मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता । श्रवणं च धनिष्ठा च मार्गी शतभिषस्तथा ॥ वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ।
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ॥ इति । याम्या भरणी । आदित्या अदितिदेवत्या पुनर्वसुः । मार्गी मृगवीथी । स्पष्टमन्यत् । अत्र सव्यादयस्त्रयोऽपि शब्दा: प्रत्येकं मार्गत्रयस्यापि वाचकाः सम्भवन्ति । तथाहि- 'वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणमिति कोशात्प्रकृते सव्यशब्देन नागवीथीगजवीथ्यैरावतवीथ्यात्मक उत्तरो मार्गो विवक्ष्यते । अपसव्यशब्देन त्वजवीथीमृगवीथीवैश्वानरवीथ्यात्मको दक्षिणो मार्गः । मार्गशब्देन सामान्यवाचिनैव पारिशेष्यादार्षतवीथीगोवीथीजारद्ववीथ्यात्मको मध्यमो मार्ग उच्यते । यद्वा उत्तरमार्गो मृगशीर्षसम्बन्धित्वेन मृगस्यायं मार्ग इति व्युत्पत्त्या मार्गपदेनोच्यते । मध्यमस्तु सव्यपदेन पक्षिणमार्गात्सव्यस्थानीयत्वात् । अपसव्यस्तु यथास्थित एव । यद्वा 'सव्यं दक्षिणवामयो रिति कोशाद्दक्षिणमध्यमार्गावेव सव्यापसव्यपदेनोच्येते । उत्तरस्तु मार्गपदेनेति त्रयाणां मार्गाणां वामसंस्थक्रमेण निर्देशः सम्पद्यते । अथवा दक्षिणमार्ग एव मुंगवीथीसम्बन्धित्वादुक्तव्युत्पत्त्या मार्गपदेनोच्यताम् । मध्यमस्तु सव्यपदेन मार्गाद्वामत्वात् उत्तरमार्गापेक्षया दक्षिणत्वाद्वा । अत एव तद्विरुद्धत्वादुत्तरो मार्गोऽपसव्यः । मध्यम एव वाऽपसव्यपदेन उत्तरमार्गापेक्षया दक्षिणस्थानीयत्वात्सव्यपदेन तूत्तर एवेति दक्षिणसंस्थक्रमेणापि निर्देशः सम्पनीपद्यत इत्येका व्याख्या। ____ एवं वा |सव्यो देवयानोऽर्चिरादिमार्गो निवृत्तिपरैः प्राप्यः । अपसव्यः पितृयाणो धूम्रादिमार्गः प्रवृत्तिपरैः प्राप्यः । मार्गस्थशब्दो मार्गेषु स्था स्थितिर्यस्मादिति व्युत्पत्त्या ध्रुवावस्थितिशालिविष्णुलोकपरः । आदित्यादिग्रहाणां स्वस्वमार्गे स्थापनस्य ध्रुवाधीनत्वात् । ईदृशमार्गत्रयरूपेत्यर्थः । एतद्विस्तरस्तु विष्णुपुराणे द्वितीयेऽशे
'उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयाणः स वै पन्था वैश्वानरपथावहिः ॥ तत्रासते महात्मानो ऋषयो ह्यग्निहोत्रिणः । भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392