Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 326
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 ललितासहस्रनामस्तोत्रम् इति । अत्रिस्मृतौ तु 'प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिर्ब्रह्मवादिभिः॥ इत्युक्तम् । सुखकर्तृत्वात्सुखकरी । 'कृञो हेत्वि'त्यादिना ताच्छील्ये णिनिः । शोभनेन वेषेणाढ्या युक्ता । सुवासिनी सार्वकालं जीवत्पतिका । सुवासिनीजनाभिन्ना वा ॥ २२८॥ सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा । सुवासिनीनामर्चनेन प्रीता । आशोभनेति चतुरक्षरं नाम । समन्ततः सौन्दर्यवती । शुद्धं मानसं यस्याः। बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ २२९ ॥ ___ बिन्दौ सर्वानन्दमये चक्रे ब्राह्मणादिवर्णचतुष्टयकर्तृकण क्षीराज्यमध्वासवबिन्दुकरणकेन वा तर्पणेन सम्यक्तुष्टा । 'बिन्दुरिच्छु'रिति निपातितबिन्दुपदवाच्यज्ञातॄणां तर्पणेन तृप्त्या सन्तुष्टा वा पूर्वं जाता | 'इयमेव सा या प्रथमा व्यौच्छदिति, 'अहमस्मि प्रथमजा ऋतस्येति श्रुतेः । अबुद्धिपूर्वका या प्रथमा सृष्टिस्तद्रूपा वा । अष्टमचक्राभिमानित्रिपुराम्बाख्यदेवतारूपा । त्रयाणां पुराणामवस्थारूपाणामम्बिका जनिका वा । त्रीणि पुराणि यस्य स जीवः । 'पुरत्रये क्रीडति यश्च जीव' इति श्रुतेः तज्जननी वा । 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ती'त्यादिश्रुतेः । 'वामादीनां पुराणां तु जननी त्रिपुराम्बिकेति वचनसिद्धा वा ॥ २२९ ॥ दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी। ___ संक्षोभिण्यादित्रिखण्डान्ता दश मुद्रास्ताभिः करणभूताभिः सम्यक् नित्याहृदयोक्तवासनानुगुण्येनाराध्या । पञ्चमचक्राधिष्ठात्री त्रिपुराश्रीनामिका देवी तां वशं कुरुते, सा वशङ्करी यस्या इति वा तर्जन्यङ्गुष्ठयोगरूपज्ञानमुद्रारूपा वा । सुवासिनीनां अर्चनेन प्रीता । प्रीतायै इति ॥ आशोभना आसमन्तात्सौन्दर्यवती । आशोभनायै इति ॥ शुद्धं रागादिरहितं मानसं यस्याः सा । मानसायै इति ॥ बिन्दौ बिन्दुचक्रे तर्पणेन पूजनेन सन्तुष्टा । सन्तुष्टायै इति ॥ पूर्वजा सर्वकारण- रूपा । पूर्वजायै इति ॥ त्रयाणां पुराणां लोकानां अम्बिका जननी । अम्बिकायै इति ॥ २२९ ॥ दशभिः मुद्राभिः संक्षोभिण्यादित्रिखण्डाभिः सम्यगाराध्या । आराध्यायै इति ॥ त्रिभ्यः जाग्रदाद्यवस्थाभ्यः पुरा पुरातनी आत्मशक्तिः तां श्रियं लक्ष्मी च भक्तानां वशीभूतां करोति । भोगमोक्षप्रदेति भावः । कर्ये इति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392