Book Title: Lalita Sahashranam Stotram
Author(s): Batuknath Shastri, Shitalprasad Upadhyay
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 353
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 339 सौभाग्यभास्कर- बालातपासहितम् प्रयोजकत्वेनाश्रयाश्रयिभावसम्बन्धायोग्यत्वात् । रात्रौ रात्रिमभिव्याप्य । पठेत् आवर्ययेत् ॥ २६२ ॥ आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता । अन्तःपुरं शुद्धान्तं गता यद्यपि तथापि तादृशादपि स्थालत्समीपमायातीत्यन्वयः । नन्वभीष्टा स्त्री किमिह स्वीया परकीया वा । आद्ये यद्यप्यन्तःपुरं गतेति विरुध्यते । तेन राजमहिषीप्रतीतेः । न च राजकर्तृक एवायं प्रयोगोऽस्तु । राजसूयादिवाक्य इवाधिकारिविशेषाश्रवणात् तस्यान्तःपुरे दुःसाध्यताया अभावेनाकार्षणवैयर्थ्याच्च । न च कौतुकार्थं प्रवृत्तिरस्तु । यद्यपीति स्वारस्येन दुःसाध्यताप्रतीत्या कुतुकिनोऽधिकाराभावप्रतीत्या अकुतुकिनोऽधिकाराभावाप्रतीतेः । अन्त्यधर्मस्य विधिविहितत्वायोग इति चेन्न । स्वस्त्रिया एवं बलात्कारहरणादिना निमित्तेन दुःसाध्यतायामेतद्विधिसार्थक्यात् । अस्ति हि हनुगुण्ठपीठमहात्म्ये इतिहासः - नारायणाख्यस्य मुनेः चन्द्रवदनाख्या भार्या शक्रात्मजेन सेतुराजेनापहृता मुनिना देवीमाराध्यैव पुनरानीतेति । अथवा परकीयाकर्षणस्य धर्माविरोधेनैव फलान्तरं कल्प्यम् । अस्तु वा सम्भोगार्थमेवाकर्षणम् । तथापि तस्य भावनायां भाव्यत्वेनैवान्वयान्न विधेयत्वम् । तदुक्तं तन्त्रवार्तिक 'फलांशे भावनायाश्च प्रत्ययो न विधायकः । वक्ष्यते जैमिनिश्चात्र तस्य नित्यार्थलक्षणा ॥ इति । विहितत्वाभावाच्च न परकीयाभिलाषस्य धर्मत्वम् । तत्करणीभूते प्रकृतप्रयोगे तु श्येनयाग इव धर्मत्वम् । यानि तु 'सर्वासामेव योषाणां कौलिकः प्रथमः पति रित्यादीनि श्यामारहस्यकारैर्लिखितानि वचनानि तदर्थनिष्कर्षरीत्या तु धर्मत्वं गुरुमुखादेवावगन्तव्यम् ॥ अत्र त्रिवर्गे मध्यमस्य कामानन्तरमुपस्थितत्वात्तत्फलकेषु भूरिषु प्रयोगेषु राजाकर्षणमाह सार्धद्वयेन राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ॥ २६३ ॥ राजेति । चेदित्यनेनाकर्षणकामनायां सत्यां तदुद्देशेन प्रयोगकरण एवेदं फलं सिद्ध्यति । उत्तरत्र वक्ष्यमाणानि तु षट्कर्माणि तत्तदुद्देशेन प्रयोगकरणेऽप्यानुषङ्गिकाणि सत्यकामस्यापि सिद्ध्यन्तीति सूचितम् । राज्ञ आवसथो गृहं स्वासनस्थलाद्यस्यां दिशि वर्तते तदभिमुख इत्यर्थः । सामान्यविधानात्प्रागुदङ्मुखत्वयो योरयमपवादः || २६३॥ त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः । स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ॥ २६४ ॥ For Private and Personal Use Only प्राप्त

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392